656 सप्तकं स्याद्वादः तत् सप्तक यस्यासौ स तथोक्तः7011 तमिति । किं पुनः त7012त्सप्तकेन7013
स्याद्वादस्य साधर्म्य येनैवमुच्यते इति चेत्; उपदेशाद्यनपेक्षाऽर्थज्ञानजनकत्वम् । यथैव
हि ईक्षणात् परोपदेशलिङ्गान्वयव्यतिरेकनिरपेक्ष रूपादिज्ञान जायते तथा स्याद्वादाद्
भगवत केवलज्ञानमिति । तमित्थम्भूतम् इष्टदेवताविशेष प्रणिपत्य वक्ष्यमाणलक्षण
लक्षितान् प्रमाणनयनिक्षेपान् अभिधास्ये । कथम् ? यथागमम्, आगमा
नतिक्रमेण । अ7014नेन तत्र आ7015त्मनः स्वातन्त्र्यं परिहृतम् ।


तत्र प्रमाणादीनां समासतो लक्षण प्रतिपादयन्नाह–


ज्ञा7016नं प्रमाणमात्मादेः उपायो न्यास इ7017ष्यते ।

7018यो ज्ञातुरभिप्रायो युक्तितोऽर्थपरिग्रहः ॥ ५२ ॥

विवृतिः–ज्ञा7019नं प्रमाणं कारणस्याप्यचेतनस्य प्रामाण्यमनुपपन्नम् असन्निकृष्टे
न्द्रियार्थवत् । विषमोऽयमुपन्यासः असन्निकृष्टस्य तदकारणत्वादिति; नैतत्सारम्;
अर्थस्य तदकारणत्वात् तस्येन्द्रियानिन्द्रियनिमित्तत्वात् अर्थस्य विषयत्वात् । न7020 हि
तत्परिच्छेद्योऽर्थः तत्कारणतामात्मसात्कुर्यात् प्रदीपस्येव घटादिः ।


कारिकार्थ–


ज्ञानमेव प्रमाणमेव इत्याद्यवधारण सर्वत्र द्रष्टव्यम् । कस्य तत् ।
इत्याह–आत्मादेः । आदिशब्देन पुद्गलादिपरिग्रहः । ननु ज्ञाना
र्थयोः तादात्म्यादिसम्बन्धासभवात् कथं त7021त्तस्य7022 इत्युच्य7023ते इति
चेत्, न, तदभावेऽपि विषयविषयिभावलक्षणसम्बन्धसभवात् । त7024दभावे 7025सोऽपि

  1. –क्तमिति ब॰

  2. ईक्षणसप्तकेन ।

  3. –केन स्यासा– आ॰

  4. अनेन आत्म– श्र॰

  5. ग्रन्थकर्तु ।

  6. इष्यते अभ्युपगम्यते सकलविप्रतिपत्तीना
    प्रागेव निरस्तत्वात् । किम् ? प्रमाणम् । किविशिष्टम् ? ज्ञान जानाति ज्ञायतेऽनेन ज्ञप्तिमात्र
    वा ज्ञानमित्युच्यते, द्रव्यपर्याययो भेदाभेदविवक्षाया कर्त्रादिसाधनोपपत्ते । कस्य ? आत्मादे
    आत्मा स्वरूपमादिर्यस्य बाह्यार्थस्य स आत्मादि तस्य स्वार्थस्य ग्राहकमित्यर्थ । अथवा आत्मा
    चिद्द्रव्यमादिशब्देन आवरणाना क्षयोपशम क्षयश्चान्तरङ्ग बहिरङ्ग पुनरिन्द्रियानिन्द्रिय गृह्यते,
    तस्मादुपजायमानमित्यध्याहार । तथा इष्यते । क ? नय । किं रूप ? अभिप्राय विवक्षा । कस्य ?
    ज्ञातु श्रुतज्ञानिन । तथा इष्यते । क ? न्यासो निक्षेप । किंविशिष्ट ? उपाय अधिगमहेतु नामा
    दिरूप । अर्थस्य स्वत सिद्धत्वात् किमेतै प्रमाणादिभिरित्याशक्याह–युक्तीत्यादि । युक्तित प्रमाणन
    यनिक्षेपैरेवार्थस्य जीवादे परिग्रह प्रमितिर्न स्वत इति ।
    लघी॰ ता॰ पृ॰ ७५ । तुलना–ज्ञान प्रमा
    णमित्याहुर्नयो ज्ञातुर्मत मत ।
    सिद्धिवि॰, टी॰ पृ॰ ५१८A । प्रमाणस॰ पृ॰ १२७ । उद्धृतोयम्–
    ज्ञान प्रमाणमित्याहुघवलाटी॰ पृ॰ १७ ।

  7. उच्यते ज॰ वि॰

  8. तुलना–ज्ञातॄणामभिसन्धय खलु नयास्ते द्रव्य
    पर्यायत, तत्र द्रव्यमनन्तपर्ययपद भेदात्मका पर्यया ।
    सिद्धिवि॰, टी॰ ५१७A ।

  9. तुलना–
    ज्ञान प्रमाण नाज्ञानमिन्द्रियार्थसन्निकर्षादिप्रमाणवा॰ मनोरथ॰ पृ॰ ३ । लघी॰ टि॰ पृ॰ १३२ ।
    ज्ञानमेवेत्यवधारणात् सन्निकर्षादेरसविदितात्मनो व्युदास ।सिद्धिवि॰, टी॰ पृ॰ ५१८A ।

  10. तुलना–नार्थालोकौ कारण परिच्छद्यत्वात्तमोवत् ।परीक्षामु॰ २ । ६ । प्रमाणमी॰ १ । १ । २५ ।

  11. ज्ञानम् ।

  12. अर्थस्य ।

  13. –च्येतेति ब॰

  14. तादात्म्यादिसम्बन्धाभावे ।

  15. विषयविषयिभावोऽपि ।