इन्द्रियभौतिकत्वप्रकरणम्


कृष्णसारे सत्युपलम्भाद् व्यतिरिच्य चोपलम्भात् संशयः ॥
३ । १ । ३२ ॥


उद्देशलक्षणक्रमानुरोधात् शरीरानन्तरमिन्द्रियाणां परीक्षां प्रतिजानीते भाष्य
कारः—अथेमानीन्द्रियाणि प्रमेयक्रमेणेति ।
तत्र परीक्षापूर्वरूपं संशयमाह—
किमाव्यक्तिकानि आहोस्विद्भौतिकानीति । उपलक्षणं चैतत् । यदापि
भौतिकानि तदापि किं कृष्णसारं यदेतदुपलभ्यते तदेवेन्द्रियम् आहो तदधिष्ठानं
तैजसमित्यपि संशयो द्रष्टव्यः । विप्रतिपत्तेः संशयः । तत्र पूर्वः सांख्यनैयायिक
479 योर्विप्रतिपत्तेः । उत्तरस्तु सौगतनैयायिकयोरिति । आव्यक्तिकत्वमाहङ्कारिकत्वं
द्रष्टव्यम् । अहङ्काराद्धि बुद्धिविकाराद् वैकारिकाद् एकादशेन्द्रियाणि जायन्त इति
सांख्या । आव्यक्तिकत्वं त्वव्यक्तस्य मूलकारणत्वादुक्तम् । विप्रतिपत्तिबीजं
पृच्छति—कुतः संशय इति । विप्रतिपत्तिमाह कारणे कार्योपचारात् ।
उत्तरम्—कृष्णसारे सतीति ।


वार्त्तिकम्—किमाव्यक्तिकानि ? तस्य व्याख्यानम्—आहङ्कारिकाणीति ।
कृष्ण…यः ॥
कृष्णसारे सत्युपलम्भात् कृष्णसारमेव चक्षुरिति बौद्धाः ।
व्यतिरिच्य चोपलम्भात्
तदतिरिक्तम् । तच्चाहङ्कारिकम् अहङ्कारस्य
विभुत्वेनाप्रतिघातात् । भौतिकत्वे तु काचाभ्रपटलादिभिर्भौतिकैः प्रतिघातप्रसङ्गादिति
सांख्याः ।


न प्रदीपादिभिरनेकान्तादिति । वर्तिदेशस्थेन पिण्डितेन तेजसा प्रदीपेनाने
कान्तात् । प्रभा हि विसारिणी तं तमर्थं प्राप्य प्रकाशयति, न तु प्रदीप इत्यर्थः ।
विषयीभावादिति चेदिति । उत्पादविशेष एव स तादृक् चक्षुरर्थक्षणयोर्यतोऽ
प्राप्तयोरपि विषयविषयिभावाद् वेद्यवेदकत्वम् । न चायं व्यवहितविप्रकृष्टयोरिति न
तयोर्वेद्यवेदकभाव इत्यर्थः । निराकरोति—नोक्तोत्तरत्वात् । स एवार्थो विप्रकृष्टो न
विषयः, सन्निहितश्च विषय इत्येकस्य विषयीभावः तदभावश्चायुक्तः । क्षणभङ्गश्च
निषेत्स्यत इति भावः ॥ ३२ ॥


महदणुग्रहणात् ॥ ३ । १ । ३३ ॥


तत्र सांख्यमुत्थाप्य बौद्धपक्षं दूषयति—अभौतिकानीति । कृष्णसाराधिकग्रहणे
विवक्षिते 1873अर्थग्रहणं संपातायातम् । न तु तदत्र विवक्षितम्, असाधकत्वादिति ।
मह…णात् ॥ धाना अङ्कुरः । अभौतिकं तु 1874व्यापकत्वादिति । तद्यथा विज्ञानाद्यभौतिकं
महच्चाणु च गृह्णातीत्यर्थः ।


480

एकदेशिमतेन दूषणमाह—न भौतिकेषु प्रदीपादिषु इति । ननु बुद्धिर्यदि
महदण्वोः प्रकाशनं तत् किमिदानीं सर्वस्यैवाप्रकाशनमित्यत आह—अवधारितस्य
त्वर्थस्येति ।
न च हानोपादानोपेक्षाबुद्धयोऽण्व्यो महत्यो वेति भावः ।
पूर्वपक्ष्याह—नेन्द्रियेऽपि समानत्वादिति । तदेवमेकदेशिनोऽसाधारणत्वापादने
पूर्वपक्षिणा दूषिते परमसिद्धान्ती आह—अभूतात्मकं व्यापकं चेति । सांख्यः
शङ्कते—वृत्तिरिति । इन्द्रियाणां वृत्तयो ज्ञानहेतवः प्रतिषिध्यन्त इत्यर्थः ।
युगपदनेकविज्ञानप्रसङ्गाच्चेति । यद्यपि सांख्यीये राद्धान्ते दीर्घां शष्कुलीं भक्षयतो
युगपदनेकज्ञानोत्पत्तिरभिमता तथापि क्वचित् क्रमोऽपि दृश्यते स न स्यात् ।
वृत्तिमतोऽवस्थाने तदभिन्ना वृत्तिरप्यवतिष्ठत इति तन्मात्राधीनोत्पत्तीनां विज्ञानानां
क्रमो न स्यादिति भावः । उभयं नेष्यत इति । वृत्तिभ्योऽनन्यत्वं वृत्तिमतो नेष्यते,
नापि वृत्तीनामनन्यत्वं वृत्तिमत इत्यर्थः ॥ ३३ ॥


रश्म्यर्थसन्निकर्षविशेषात्तद्ग्रहणम् ॥ ३ । १ । ३४ ॥


नैयायिकः सांख्यं दूषयति—रश्म्य…णम् ॥ आहङ्कारिकत्वे चक्षुर्न प्रतिहन्यते
यदि ततः काचाभ्रपटलान्तरितप्रकाशनवत् कुड्यान्तरितमपि प्रकाशयेत् न चैवमस्ति ।
तस्मात् कृष्णसाराधिष्ठानं तेज एव भौतिकं प्राप्य गृह्णाति कुड्यान्तरितं त्वर्थमप्राप्तं
न गृह्णाति । काचाभ्रपटलान्तरिते तु वक्ष्यति । भूयोऽवयवसन्निकर्षानुग्रह इति ।
इन्द्रियावयवानामर्थावयवैः इन्द्रियावयवानामर्थेन अर्थावयवानामिन्द्रियेण
इन्द्रियस्यार्थेनेति ॥ ३४ ॥


तदनुपलब्धेरहेतुः ॥ ३ । १ । ३५ ॥


तदनुपलब्धेरिति । नोपलब्धिलक्षणप्राप्तमनुपलभ्यमानं शक्यमनुमातुं
नरविषाणादिनामप्यनुमानप्रसङ्गादित्यर्थः ॥ ३५ ॥


481

नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः ॥ ३ । १ । ३६ ॥


परिहारः—नानुमीयमानस्येति । नानु…तुः ॥ सत्यम् । उपलब्धिलक्षण
प्राप्तमनुपलभ्यमानं न शक्यमनुमातुम् । न तु महत्त्वाद्येवोपलक्षणप्राप्तेरपि तु रूप
विशेषोऽपि । न चासौ विशेष उद्भवसमाख्यातः कृष्णसाराधिष्ठानस्य चक्षुषोऽ
स्तीत्यर्थः ॥ ३६ ॥


द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः ॥ ३ । १ । ३७ ॥


आचार्यदेशीयानां मतमाह—अपरे त्विति । दूषयति—एवं तर्हीदमिति ।
यत्रोपलब्धिस्तत्रैतदिति सूत्रार्थः । ततो महत्त्वादिषु मध्ये यत्किञ्चिदेकं वक्तव्यं
सूत्रकारेण यत्रोपलब्धिस्तत्रैतदित्यर्थस्यैकस्मादेव1875 सिद्धेरनेकोपादानवैयर्थ्यम् । तस्मात्
समस्तार्थयोग्यतार्थाभिधानपरं1876 सूत्रम् । ननु यथासूत्रं1877 महत्त्वाद्युपलब्धिकारणमस्ति
चाक्षुषस्य रश्मेरिति कस्मादयं नोपलभ्यते इत्यत आह—द्रव्यगुणधर्मेति ॥ ३७ ॥1878


कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ॥ ३ । १ । ३८ ॥


अनेकरश्मिसन्निपाते स्पर्शस्योद्भूतौ सत्यां द्रव्यं दह्येत रूपोद्भूतौ च सत्यां
व्यवहितत्वात् आदौ निपतितेन चक्षुरन्तरेण द्रव्यस्यानुपलब्ध्या भवितव्यम् ।
शङ्कते—अथानेकेति । नानानयनावयवैरेकोऽसौ नयनावयव्यारभ्यत इत्यर्थः ।
निराकरोति—एवं सतीति । नानानयनावयवैरारब्ध एकोऽसौ नयनावयवी समग्रा
समग्रचक्षुःपुरुषसाधारण इत्युपलब्धिस्तुल्या स्यादित्यर्थः ॥ ३८ ॥


482

मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ॥ ३ । १ । ३९ ॥


न रात्रावप्यनुपलब्धेः ॥ ३ । १ । ४० ॥


न हि यद् यस्याभिभावकं तत् तस्य व्यञ्जकमिति । रात्रौ यद् लोष्टतेजसोऽभि
भावकं दिवा कथं तदेवास्य व्यञ्जकं येन तदभावाद् रात्रौ लोष्टतेजो नोपलभ्येत
इत्यर्थः । अपिशब्दाद् गम्यत इति । न रात्रावपीति सूत्रगतादित्यर्थः ॥ ४० ॥


बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः
॥ ३ । १ । ४१ ॥


सोऽयं चाक्षुषो रश्मिः किमभिभवात्1879 नोपलभ्यते, किं वानुद्भूतेरित्यत आह
भाष्यकारः । उपपन्नरूपा चेयम् । अनभिव्यक्तितोऽनुपलब्धिरिति योजना ।
अनभिव्यक्तितः अनुद्भूतेरित्यर्थः । अत्र हेतुः बाह्यप्रकाशानुग्रहाद् विषयोप
लब्धेः ।
विषयश्च स्वरूपमात्मनोऽन्यच्च । एतदुक्तं भवति । यदुपलब्धौ बाह्यप्रकाश
मनुग्राहकमपेक्षते, तस्यानुद्भूतेरेवानुपलब्धिर्न त्वभिभूतेः । यथा हेमन्ते
विषक्तावयवस्याप्यस्य द्रव्यस्य । आप्यं हि द्रव्यं 1880विषक्तावयवं स्वविषयोपलब्धौ
बाह्यप्रकाशानुग्रहमपेक्षमाणं दृष्टम् । चक्षुरपि च विषयोपलब्धौ बाह्यप्रकाशमपेक्षते
निरालोके तस्याप्रवृत्तेः । तस्माद् विषयोपलब्धौ बाह्यप्रकाशानुग्रहापेक्षत्वात् तदनुद्भूत्या
न प्रतीयते न पुनरभिभूत्येति सिद्धं प्रकृतम् । तदेतद् वार्त्तिककारो व्याचष्टे—तस्य
विद्यमानस्येति
॥ ४१ ॥


अभिव्यक्तौ चाभिभवात् ॥ ३ । १ । ४२ ॥


483

तमिमं विशेषं मध्यन्दिनोल्काप्रकाशादावविद्वान् पृच्छति—कस्मात्पुनर्नायन
स्येति ।
अस्योत्तरम्—अभि…वात् ॥ अभिभवनीयस्वरूपमाह1881यदुद्भूतरूपमिति ।
तद्वैधर्म्यमनुद्भूतरूपस्याह—अनुद्भूतरूपश्चेति । अनुद्भूतरूपस्याभिभवाभावे
निदर्शनमाह—यदनुद्भूतरूपमिति । बाह्यप्रकाशानुग्रहापेक्षस्य चाभिभवाभावे
निदर्शनमाह—यच्च बाह्यप्रकाशानुग्रहापेक्षमिति । कृष्णसारं रश्मिमदित्युच्यमाने
प्रसन्नान्धस्यापि कृष्णसारं रश्मिमत् साध्येत । तथा चापसिद्धान्त इत्यत
आह—विप्रतिपत्तिविषय इति । तेन विप्रतिपत्तिविषयः कृष्णसारं 1882रश्मिमदिति
साध्यनिर्देशः । उपलब्धौ निमित्तत्त्वादित्युच्यमाने गन्धादिभिरनैकान्तिकं स्यादत
उक्तम्—रूपोपलब्धाविति रूपसाक्षात्कार इत्यर्थः । तथापि सन्निकर्षादिभिरने
कान्तोऽत उक्तम्—द्रव्यत्वे सतीति । तथापि मनसानेकान्तोऽत उक्तम्—नियतस्य
साधनाङ्गस्येति ।
असाधारणस्य साधनाङ्गत्वे सतीति मनसस्तु साधारणस्य
साधनाङ्गस्य रूपोपलब्धौ निमित्तत्वम् । साधनं समुदायस्तदङ्गमवयवः । अथ वेति ।
द्रव्यत्वे सति नियतत्वे चार्थप्रकाशकत्वादित्युच्यमाने घ्राणादिभिरनेकान्तः स्यादत
उक्तम्—स्फटिकादिव्यवहितेति ॥ ४२ ॥


नक्तञ्चरनयनरश्मिदर्शनाच्च ॥ ३ । १ । ४३ ॥


मानुषं चक्षू रश्मिमदिति । रूपाद्युमलब्धिनिमित्तत्वादिति सावधारणं
रूपादीनामेवेति । तेन न मनसानेकान्तः । तथापि सन्निकर्षेणानेकान्त इत्यत उक्तम्—
अप्राप्तिस्वभावत्व इति । इतश्च भौतिकानीन्द्रियाणीति । चक्षूरसनत्वग्घ्राणानी
त्यर्थः । तथापि श्रोत्रस्य रूपं न ज्ञायते कीदृशं तदित्यत आह—भूतं श्रोत्रम् ।
अर्थप्रकाशकत्वादित्युच्यमाने मनसानेकान्तोऽत आह—प्राप्तेति । न हि रूपादिभिः
सहास्ति मनसः प्राप्तिः । तथापि मनस्येवानेकान्तः । आन्तरं हि सुखादि मनः प्राप्य
484 प्रकाशयति । अत आह—बाह्येति । तथापि सन्निकर्षादृष्टादिभिरनेकान्तोऽत
आह—द्रव्यत्वे सतीति ।


शङ्काभाष्यम्—जातिभेदवदिन्द्रियभेद इति चेत् ? निराकरोति—धर्म
भेदमात्रं चानुपपन्नम् ।
वृषदंशनयनस्य रश्मिमत्त्वं धर्मो मानुषनयनस्य त्वतद्वत्त्वमिति
योऽयं धर्मभेदः स एव मात्रम् । तच्चानुपपन्नम् । चोऽवधारणे भिन्नक्रमः । अनुपपन्नमेवेति
योजना । कुतोऽनुपपन्नमित्यत्र हेतुमाह—आवरणस्येति । यथा हि धूमवत्त्वं पर्वते
रसवत्यां चान्यत् तथाप्येष विशेषोऽस्याग्निमत्त्वानग्नित्वे प्रत्यप्रयोजकः । एवं
विडालत्वमनुष्यत्वे अप्रयोजके इत्यर्थः ॥ ४३ ॥


अप्राप्य ग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ॥ ३ । १ । ४४ ॥


कुड्यान्तरितानुपलब्धेरप्रतिषेधः ॥ ३ । १ । ४५ ॥


अप्रतीघातात् सन्निकर्षोपपत्तिः ॥ ३ । १ । ४६ ॥


सोऽप्रति हन्यमान इति । स रश्मिः अप्रतिहन्यमानः काचेन काचं व्यतिभिद्यार्थेन
संबध्यते काचान्तर्गतेन ॥ ४६ ॥


आदित्यरश्मेः स्फटिकान्तरितेऽपि दाह्येऽविघातात् ॥ ३ । १ । ४७ ॥


वार्त्तिकम्—अव्यूह्यमानावयवद्रव्यानुप्रवेश इति । यस्य द्रव्यस्य
भर्जनकपालादेः अवयवा न व्यूह्यन्ते पूर्वोत्पन्नद्रव्यारम्भकसंयोगनाशेन द्रव्या
न्तरजनकसंयोगोत्पादनं व्यूहनं तन्न क्रियन्ते । तस्य द्रव्यस्य भर्जनकपालादेः
अव्यूह्यमानस्य अवयवव्यूहनमवयविनोऽपीति अव्यूह्यमानस्येत्युक्तम् । तस्य
भर्जनकपालादेः अन्तरावयवैर्योऽभिसंबन्धो वह्नेः सोऽप्रविघातः1883


485

एतदुक्तं भवति—सान्तरत्वादवयविद्रव्याणां तदविनाशेनाग्नेर्येऽनुप्रवेशः
सोऽप्रतिघात इति । प्रवेशेऽविघातमुक्त्वा निःसरणेऽप्यविघातमाह—
अन्तर्व्यवस्थितस्य वा द्रव्यस्य मधूदकादेः बहिरवस्थितहस्तादिप्राप्तिः । तस्य
कीदृशस्य बहिरित्यत आह—अव्यूह्यमाना अवयवा यस्य द्रव्यस्य कलसादेः तस्य
बहिरिति ॥ ४७ ॥


नेतरेतरधर्मप्रसङ्गात् ॥ ३ । १ । ४८ ॥


आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत् तदुपलब्धिः ॥
३ । १ । ४९ ॥


द्रव्यान्तरासंपृक्तद्रव्यसमवायः स्वच्छतेत्यर्थः । प्रसङ्गात् प्रतिबिम्ब
भ्रमोत्पादक्रममाह—आदर्शादिष्विति । यदभिमुखमग्रमिति । द्रष्टुः पुरुषस्याभि
मुखं नयनरश्मेः परावृत्तस्याग्रं तदभिमुखं मुखादि पश्यति । सारूप्यनिबन्धनत्वाद्
विभ्रमाणां सारूप्यमिहाप्याह—यथाग्रतोऽवस्थितस्य पुरुषस्य मुखं
लोचनरोचिरग्रसंबद्धमभिमुखम् एवमेतदपीति । नन्वादर्शे प्रतिहतश्चेत् नयनरश्मिः
परावृत्तः कथं पश्चादभिमुखमुखविभ्रमहेतुः ? हन्त भोः पातमात्रादादर्शज्ञानेन
भवितव्यम् पश्चात् प्रतिबिम्बविभ्रमेण, न चैवमस्ति यौगपद्यप्रतिभासादित्यत
आह—आदर्शेति । कुतस्तर्हि मणिकृपाणदर्पणतलेषु नानानिर्भासः प्रतिबिम्बावभास
इत्यत आह—आदर्शरूपानुग्रहात् त्विति ॥ ४९ ॥


॥ इन्द्रियभौतिकत्वप्रकरणम् ॥

  1. अणुग्र° J

  2. विभुत्वादिति भाष्यपाठः C

  3. °तदित्येकस्मादेव C

  4. संभावनायोग्यताभि° C

  5. यथाश्रुतं C

  6. इतः परं
    अनेकद्रव्यः…रूपोपलब्धिरिति वै. सू. ४. १. ९ न्यायभाष्योद्धृतं न्यायसूत्रत्वेन समुल्लिखन्ति केचन ॥

  7. अभावात् C

  8. अविषक्ता° J

  9. °भवनीयस्य रूप°J

  10. °सारं रूपं चC

  11. अविघातः J