489

न तदर्थबहुत्वात् ॥ ३ । १ । ५६ ॥


पूर्वपक्षिणः सूत्रम्—न, त…त्वात् ॥ पूर्वपक्षमाक्षिपति—न विरोधादिति ।
पूर्वपक्षिणः समाधानं नासाधनाद् इति ॥ ५६ ॥


गन्धत्वाद्यव्यतिरेकाद् गन्धादीनामप्रतिषेधः ॥ ३ । १ । ५७ ॥


सिद्धान्तः—गन्ध…धः ॥ ५७ ॥


विषयत्वाव्यतिरेकादेकत्वम् ॥ ३ । १ । ५८ ॥


न बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ॥ ३ । १ । ५९ ॥


यस्याधिष्ठानं भिन्नम् इति । 1886नियतम् । एतदुक्तं भवति—रूपव्यञ्जकस्य
कृष्णसारमेवाधिष्ठानं न कर्णशष्कुल्यादि । एवमन्यत्रापि द्रष्टव्यम् । यस्य पुनः
सिद्धान्तिनः । अधिष्ठानभेदः तथा च तदधिष्ठानस्येन्द्रियस्यापि भेदः तस्य
एकाधिष्ठानविनाशेन तद्गतस्येन्द्रियस्य विनाशेऽपि अधिष्ठानान्तराश्रयस्य
इन्द्रियान्तरस्य अवस्थानमिति न एकाधिष्ठाननाशे सर्वाधिष्ठाननाशात् सर्वेन्द्रिय
नाशलक्षणः तथैकाधिष्ठानावस्थाने सर्वेन्द्रियावस्थानलक्षणो दोष इति ।
इष्टानिष्टोपेक्षणीय इति । उपेक्षणीयस्यापि पुरुषार्थत्वं भवति केनचित् प्रकारेण ।
यदि हि तत्र पुरुषः प्रवर्तते ततो निष्फले कर्मणि प्रवृत्तौ पुरुषस्तप्येत । दुःखं
कर्मेत्यनुभवो लोकस्य उपेक्षणीयत्वे तु तन्न तस्य भवतीति ॥ ५९ ॥


भूतगुणविशेषोपलब्धेस्तादात्म्यम् ॥ ३ । १ । ६० ॥


तत्र पार्थिवं घ्राणं रूपरसगन्धस्पर्शेषु नियमेन द्रव्यत्वे सति गन्धस्यैव

  1. भिन्नं नियतम्C