490 व्यञ्जकत्वाद् बाह्यपार्थिववदिति । यथा हि मृगमदगन्धव्यञ्जकाः कुक्कुटोच्चारादयः
पार्थिवा इत्यर्थः । न चातपेनानेकान्तः । न ह्यातपो गन्धस्य व्यञ्जकोऽपि तु जलाभि
भूतो गन्धो द्रव्याणां नोपलभ्यते केवलं जलमातपोऽपनयति, न तु द्रव्यस्य गन्धम
भिव्यनक्ति । तस्मान्नानेकान्तः । एवं रसनमिन्द्रियमाप्यं गन्धादिषु मध्ये नियमेन
रसस्य व्यञ्जकत्वाद् दन्तान्तरस्यन्दमानोदकबिन्दुवत् । न खलु विशुष्यदास्यो
मोदकादिरसमनुभवति । एवं तैजसं चक्षुः गन्धदिषु मध्ये नियमेन रूपस्य व्यञ्जकत्वात्
प्रदीपवत् । एवं वायवीयं त्वगिन्द्रियं गन्धादिषु मध्ये 1887नियमेन स्पर्शव्यञ्जकत्वात्
स्वेदोदबिन्दुशीतस्पर्शव्यञ्जकव्यजनपवनवत् । नियमग्रहणं मनोनिवृत्त्यर्थम् । गन्धादिषु
मध्ये इति चावधारणसिध्यर्थम्, अन्यथा घ्राणादीनां गन्धत्वादिव्यञ्जकत्वेनावधारणं
न स्यात् । तदेतदाह—एवं शेषेष्विति । एवं चेन्द्रियपञ्चत्वे हस्तपादपायूपस्थवा
चामिन्द्रियत्वनिषेधोऽपि 1888संसूचितः इन्द्रियलक्षणविरहात् । यच्छरीरसंयुक्तं
संस्कारकदोषव्यतिरिक्तं साक्षात्प्रतीतिसाधनं तदिन्द्रियमिति हीन्द्रियलक्षणम् । न
चैतदस्ति हस्तादिषु । तज् ज्ञानेन्द्रियाणां लक्षणम्, इमानि तु कर्मेन्द्रियाणीति चेत् ?
हन्तैषामिन्द्रियत्वे लक्षणान्तरं वक्तव्यम् । शरीराश्रितमसाधारणकार्यकारीन्द्रिय
मितीन्द्रियलक्षणमिति चेद् ? वक्तव्यमेषामसाधारणं कार्यम् । उक्तम्
वचनादानविहरणोत्सर्गानन्दाः पञ्चानाम्
इति । नन्वादानविहरणोत्सर्गास्तावद् वक्त्रहस्तादिभिरपि शक्याः कर्तुम् । अपि
चास्ति कण्ठहृदयामाशयपक्वाशयादीनां निगरणादितत्तदसाधारणं कार्यमिति
तान्यपीन्द्रियाणि प्रसज्येरन्निति । तस्माद् यत्किञ्चिदेतदपीति ॥ ६० ॥


॥ इन्द्रियनानात्वप्रकरणम् ॥

अर्थपरीक्षाप्रकरणम्


गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ॥ ३ । १ । ६१ ॥


  1. स्पर्शस्यैव व्य° C

  2. संगृहीतः J