491

अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ॥ ३ । १ । ६२ ॥


क्रमप्राप्तमर्थलक्षणं परीचिक्षिषमाणोऽर्थलक्षणं स्मारयति, गन्धादयः
पृथिव्यादिगुणा इत्युद्दिष्टमिति1889
लक्षितमिति वक्तव्ये संमुग्धाभिधानम् । सामान्या
दुद्दिष्टमित्युक्तम् । तत्र परीक्षामुखं संशयमाह—उद्देशश्च नियोगेति । नियोगादीनां
रूपमाह—तत्र नियोग इति । तदेवं विमृश्य नियोगसमुच्चयौ परित्यज्य विकल्प
मालम्बते सूत्राभ्याम्—अतो विशेषणार्थमिति—गन्ध…व्याः ॥ अप्ते…रः ॥
विशेषणार्थमिति सूत्रयोस्तात्पर्यमुक्तम् । तदेव स्फुटयति नियमार्थे इति ।
उत्तरेष्वबादिष्वेकैकशोऽपकर्षो गन्धादीनां स्पर्शपर्यन्तानाम् । तथा हि चतुर्षुगन्धापकर्षः
अप्स्वपकृष्टस्य च गन्धस्य पुनरुद्भवो नास्ति अद्भ्य उत्तरे तेजसि रसस्यापकर्षः ।
एवमपकृष्टयोश्च गन्धरसयोः पुनरुद्भवो नास्तीति तेजस उत्तरे वायौ रूपापकर्ष
इति । एवमपकृष्टानां गन्धरसरूपाणां पुनरुद्भवो नास्तीति वायोरुत्तरस्मिन्नाकाशे
स्पर्शस्यापकर्षः । तदिदमुक्तम्—एकैकश इति । अव्युत्पन्नोऽयमुत्तरशब्दो न तु
तरबन्तः1890 । तेन बहूनां निर्धारणेऽप्युपपन्नार्थ इति । भवतु तरब्निर्देशः तथापि न दोष
इत्याह—भवतु वेति । क्वचित् पाठः 1891तन्त्रं वेति । स यथाभाष्यं स्फुटार्थ एव
॥ ६१—६२ ॥


न सर्वगुणानुपलब्धेः ॥ ३ । १ । ६३ ॥


पूर्वपक्षी नियोगपक्षमुत्थापयति—न स…ब्धेः ॥ पृथिव्यादिप्रकृतीनां घ्राणादीनां
गन्धादिप्रतिनियम1892 एवमुपपद्यते । यदि गन्धमात्रगुणा पृथिवी रसमात्रगुणा आप
इत्यादि, न त्वन्यथा । अन्यथा तु पार्थिवेन घ्राणेन गन्धवद् रसरूपस्पर्शा अपि
व्यज्येरन् अविशेषादित्यर्थः ॥ ६३ ॥


  1. १. १. १४

  2. °शब्दोऽनन्तरवचनः C

  3. तन्त्रं वेति C

  4. °दिप्रतिव्यक्तिनि° C