तेनैव तस्याग्रहणाच्च ॥ ३ । १ । ७० ॥
तदेतद् ग्रहणकवाक्यं सोपस्कारं व्याचष्टे—यदीन्द्रियं स्वगन्धं गृह्णीयात् ते
तव दर्शने नासाविन्द्रियगन्धः । अथेन्द्रियगन्धः ततो नेन्द्रियग्राह्यः स्यात् ।
कस्मात् नेन्द्रियग्राह्य इन्द्रियगन्ध इत्यत आह—गन्धं च गृह्णदिति । चो हेतौ । न
चात्मसाधनं करणमस्तीति । मनस्तु लिङ्गवदात्मनि करणं न केवलमित्युक्तम् ।
तुल्यत्वमापादयितुं सिद्धान्ती पूर्वपक्षिणमनुयुङ्कते—कस्मात् पुनरिदं न देश्यत
इति । पूर्वपक्ष्याह—न देश्यत इति । सिद्धान्तवाद्याह—तुल्यं घ्राणेन स्वस्य
गन्धस्याग्रहणमिति । तुल्यतामेवापादयति—एतदप्यदेशनीयमिति ॥ ७० ॥
न शब्दगुणोपलब्धेः ॥ ३ । १ । ७१ ॥
तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् ॥ ३ । १ । ७२ ॥
तद्गुणत्वमेव शब्दगुणत्वमेव दिक्कालयोरिति चेत् ? नाम्नि विवादः
दिक्कालयोर्हि शब्दगुणत्वे सत्यसाधारणगुणयोगित्वेन न परापरव्यतिकरकारणत्वं
पृथिव्यादिवद् भवितुमर्हतीति । तथा च शब्दगुणं परादिप्रत्ययकारणं चाकाशमेवेति
नाम्नि विवादः । दिक्कालौ तु परापरव्यतिकरकारणे कल्पनीयौ ततो व्यतिरिक्तावि
त्यर्थः । अपि चाकाशमिच्छत आकाशप्रत्याख्यानं वा । सामर्थ्यानुपलब्धेरिति ।
रूपादिसाक्षात्कारे हि इन्द्रियाणामिन्द्रियत्वमेव स्वरूपसामर्थ्यम् । तच्चक्षुरादि
द्रव्यस्य दृष्टं न गुणादीनामित्यर्थः ॥ ७२ ॥
तृतीयाध्याये प्रथमाह्निकम् ॥