671

पञ्चमाध्याये द्वितीयाह्निकम्


प्रतिज्ञाहेत्वन्यतराश्रितनिग्रहस्थानपञ्चकविशेष
लक्षणप्रकरणम्


प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो
हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यूनमधिकं
पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्यो
पेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि
॥ ५ । २ । १ ॥


विप्रतिपत्त्यप्रतिपत्त्योर्विकल्पाद वैचित्र्यात् निग्रहस्थानबहुत्वम् इति
संक्षेपेणोक्तम् । तदिदानीं विभजनीयम् । तत्र य एवमाहुः—सर्वोऽयं
साधनदूषणप्रकारो बुद्ध्यारूढो न वास्तव इति, तान् प्रत्याह—पराजयवस्तूनीति ।
पराजयो वसत्येष्विति पराजयस्थानानीत्यर्थः । काल्पनिकत्वे कल्पनायाः सर्वत्र
सुलभत्वात् साधनदूषणव्यवस्था न स्यादिति भावः । निग्रहस्थानानि पर्यायान्तरेण
स्पष्टयति—अपराधेति । य आहुः

असाधनाङ्गवचनमदोषोद्भावनं द्वयोः ।

निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यत2402 इति

तान् प्रत्याह—सामान्यतो द्वे निग्रहस्थाने । सामान्यविवक्षायां प्रतिज्ञाहान्यादयो
द्वाविंशतिरपि न भिद्यन्ते । तत्तु असाधनाङ्गवचनमदोषोद्भावनमिति भवद्भिः संगृहीतम्,
ऋषिणा
विप्रतिपत्त्यप्रतिपत्तिभ्याम्
672 इति न कश्चिद् विशेषः । अत्र विचारयति—कर्तृकर्मकरणानामिति ।


तत्रैके वर्णयन्ति—पक्षस्येति । यथा पक्षोद्देशेन साधनं प्रवर्तमानं पक्षस्य, एवं
तदुद्देशेन दूषणानि प्रवर्तमानानि पक्षस्यैवेति । एवं चाहुर्दूषणानीति । न्यूनतादयो हि
सर्वे पक्षोद्देशेन प्रवर्तमानाः पक्षस्यैवेत्यर्थः । दूषयति—एतत्तु न सम्यगिति ।
पक्षोद्देशेन प्रवृत्तेः पक्षविषयतां नापजानीमः, साक्षात्तु तद्विषयतां निराकुर्मः, तस्य
वस्तुसतस्तादवस्थ्यात् । एवं साधनमपि यत्रासमर्थं तत्र नियुज्यमानं न स्वतो दुष्यति,
यत्र तु समर्थं तत् साधयत्येव । तस्मात् कर्तुरेव दोष इत्याह—तस्मादसमर्थयोरिति ।
न केवलं स्वातन्त्र्यात् कर्तुर्निग्रहः, अपि तु तदाधारत्वाद् विप्रतिपत्त्यप्रतिपत्त्योरि
त्याह—विप्रतिपत्त्यप्रतिपत्त्योश्चेति । ननु वाक्ये न्यूनतादयो दोषाः, न पुरुषाश्रया
इत्यत आह—विप्रतिपत्त्यप्रतिपत्ती चेति । न स्वरूपेण वाक्यं दुष्टं तस्य
तादवस्थ्यादित्युक्तम्, किं तु पुरुषस्य विप्रतिपत्त्यप्रतिपत्तिभ्यां तथा प्रतिभाति । तेन
वाक्यगतन्यूनतादिदर्शनात् पुरुषे विप्रतिपत्त्यप्रतिपत्ती प्रतीयेते । तेन तद्द्वारेण पुरुषो
निगृह्यते, न तु वाक्यम् ।


एतावता च प्रतिज्ञादिदोष इत्युच्यते । न चायमपि नियमो यद् वाक्यद्वारेणैव
पुरुषो निगृह्यते, अज्ञानादिषु तदभावादित्याह—कानिचिन्निग्रहस्थानानीति ।


शङ्कते—द्वैविध्यानुपपत्तिरिति । सामान्यं वा विवक्ष्येत विशेषो वा ?
सामान्यविवक्षायां निग्रहस्थानमित्येवास्तु, तस्य सर्वत्राविशेषात् कुतो द्वैविध्यम् ?
विशेषविवक्षायां तु प्रतिज्ञाहान्यादीनि बहूनीत्ययुक्तं द्वैविध्याभिधानमुभयथा
पीत्यर्थः । निराकरोति—न, सामान्यभेदविस्तरस्य विवक्षातः प्रवृत्तेरिति ।
सामान्यविवक्षायामपि निग्रहस्थानमिति नोक्तम्, उद्देशादविशेषप्रसङ्गात् । तस्माल्लक्षणं
प्रणयतान्यथा तदसंभवादवान्तरसामान्यद्वैविध्यविवक्षया सामान्यं लक्षितम् । भेदानां
तु विस्तरविवक्षया प्रतिज्ञाहान्यादयो विप्रपञ्चिता इत्यर्थः । आन्तर्गणिकानां तु
भेदानामानन्त्यमित्याह—उदाहरणमात्रत्वाच्चेति । द्वाविंशतिसंख्यावच्छिन्नो भेद
उदाहरणमात्रम् । आन्तर्गणिकभेदस्य तद्भेदविवक्षायां त्वानन्त्यमित्यर्थः ।


673

भाष्यमनुभाष्याक्षिपति—प्रायेण प्रतिज्ञेति । समाधत्ते—न, क्रियावचन
दोषद्वारेणेति ।
वचनदोषद्वारेणेत्येतावन्मात्रे वक्तव्ये क्रियादोषाभिधानं दृष्टान्तार्थम् ।
नन्वाश्रयार्थोऽप्ययुक्तः पुरुषाश्रयत्वादित्यत आहे—न चाधाराधेयभाव इति ।


अपरमपि भाष्यमनुभाष्याक्षिपति—तत्त्ववादिनमतत्त्ववादिनं चेति ।
समाधत्ते—न, परापदिष्टेति । सम्यक्साधने जात्युत्तरे दत्ते तस्य जातित्वमनु
द्भावयंस्तत्त्ववाद्यपि निगृह्यत इत्यर्थः ॥ १ ॥


प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥ ५ । २ । २ ॥


लक्षणं तु—प्रति…हानिः ॥ तदेतत् सूत्रं भाष्यकारमतेन तावद् व्याचष्टे—
प्रति दृष्टान्तस्य यो धर्मस्तं यदा स्वदृष्टान्तेऽभ्यनुजानातीति । तदेतद्
भाष्यव्याख्यानमुपन्यस्य वार्त्तिककारोदूषयति—एतत् तु न बुध्यामहे कथमत्र
प्रतिज्ञा हीयते
इति । अनित्यः शब्द ऐन्द्रियकत्वात्, घटवत् इति साधने प्रयुक्ते
प्रतिवादिना चानैकान्तिकत्वे सामान्येनोद्भाविते तृतीयस्थानपतितो वाद्याह—अस्तु
तर्हि सामान्यवद् 2403घटोऽपि नित्य इति । तथा सत्यैन्द्रियकत्वमनैकान्तिकं न भवति
नित्यमात्रगामित्वाद् घटादीनामपि नित्यताभ्युपगमाद् इत्याशयेन यद्यपि, तथापि
साक्षादनैकान्तिकदोषोद्धारमक्षरारूढमनुक्त्वा स्वदृष्टान्ते नित्यतां प्रतिपद्यते,
नित्यताप्रतिपत्तेश्चासिद्धता 2404दृष्टान्तदोषो भवति ।
साध्यविकलतेत्यर्थः । सोऽयं
दृष्टान्तदोषेण हेतुदोषेण वा विरुद्धत्वेन घटादीनामपि नित्यत्वाभ्युपगमेनैन्द्रियकत्वस्य
हेतोः साध्यानित्यत्वविरुद्धेन नित्यत्वेन व्याप्तत्वाद् निग्रहो वादिनो न प्रतिज्ञा
हानिः । न खलु अनेन अस्तु शब्दो नित्यः इति प्रतिज्ञा परित्यक्ता, किं तु अस्तु
घटोऽपि नित्यः इत्युक्तम् । यदि तु दृष्टान्तपरित्यागेन प्रतिज्ञातार्थस्यासिद्धेः
प्रतिज्ञाहानिरुच्येत2405, ततः सर्व एव दोषः प्रतिज्ञाहानिः, सर्वस्मादेव दोषात्
674 प्रतिज्ञाहानेरुपपत्तेः । तस्मात् कथञ्चिद् दृष्टान्तपरित्यागे प्रतिज्ञाहानिरुपचरितव्या । न
चासौ प्रधानं प्रतिज्ञाहानिं विना भवितुमर्हतीत्याह—दृष्टान्तं च जहदिति ।


तदेवं भाष्यकारव्याख्यानं दूषयित्वा स्वमतेन व्याचिख्यासुःपृच्छति—कथं
तर्हीति । दृष्टश्चासावन्ते
निगमने च व्यवस्थित इति दृष्टान्तः । दृष्टान्तप्रतिदृष्टान्तौ
पक्षप्रतिपक्षावुच्येते । एतदुक्तं भवति—प्रतिपक्षदृष्टान्तस्य2406 सामान्यस्य यो धर्मो
नित्यत्वं तं स्वपक्षे शब्देऽभ्यनुजानातीति । उदाहरणमाह—यथा अनित्यः शब्द
ऐन्द्रियकत्वादिति द्वितीयपक्षवादिनि सामान्येन प्रत्यवस्थिते इदमाह
तृतीय
पदके2407 स्थितो वादी यदि सामान्यमैन्द्रियकं नित्यं शब्दोऽप्येवं भवत्विति एषा
प्रतिज्ञाहानिः ।
अत्र च अनैकान्तिकत्वेन प्रत्यवस्थित इत्युपलक्षणम् । येन
केनचित् प्रकारेण स्वप्रतिज्ञातार्थानिर्वाहं पश्यन् प्रतिज्ञार्थं जहत् प्रतिज्ञाहानिमाप्नोतीति
परमार्थः ।


यदप्युच्यते—स्वयमेव घटमनित्यमैन्द्रियकमुदाहृत्य घटेऽप्यैन्द्रियकत्वं2408 पश्यन्
कथमनुन्मत्तः सन् सामान्यस्य नित्यस्यैन्द्रियकत्वदर्शनमात्रात् शब्दे नित्यत्वम
भ्युगपगच्छेत् ? किन्तु उभयत्र दर्शनात् संशयितः स्यादिति । तत्र सर्वं नित्यमिति
सांख्यीयराद्धान्तावलम्बनेनापि स्वपक्षनिर्वाहमपश्यतोऽनैकान्तिकत्वोद्धाराय
प्रेक्षावतोऽपि प्रवृत्तिसंभवात् । न चात्यन्तिकं प्रेक्षावत्त्वमिह ग्राह्यम्, तादृशस्य
निग्रहाधिकरणत्वानुपपत्तेः । तस्माद् यथा जडं प्रति विचारो नास्ति, एवं प्रामाणिकमपि
प्रति निग्रहावतारो नास्तीति मध्यमो जनो निग्राह्यः, तस्य च संभवन्त्येवंविधाः
प्रमादा इति ।


शङ्कते—प्रसङ्गविधानादिति चेत् ? निराकरोति—तच्च न, अत एव
तत्प्राप्तेः ।
हेतुदोषमुद्दिधीर्षुः प्रसञ्जयन्नप्यभ्युपगच्छत्येव । न हि सांख्यीयं
राद्धान्तमनभ्युपगच्छन्ननैकान्तिकत्वमुद्धर्तुमर्हतीति भावः ।


675

तदनेन परमतं निराकृतप्रायमपि साक्षान्निराकर्तुमुपन्यस्यति—हेतुदोषेण
अनैकान्तिकत्वलक्षणेन चारितार्थत्वान्न प्रतिज्ञाहानिर्निग्रहस्थानमित्यन्ये । यदाह
कीर्त्तिः, तस्मादैन्द्रियकत्वस्य नित्यानित्यपक्षप्रतिपक्षवृत्तेर्व्यभिचारादसाधना
ङ्गस्योपादानान्निग्रहार्हो, न प्रतिपक्षधर्मस्याभ्यनुज्ञानादिति । निराकरोति—न, अनै
कान्तिकत्वदोषपरिहारेण विप्रतिपत्तेस्तदुपपत्तेः ।
यदा हि सांख्यपक्षावलम्बनेन
शब्दनित्यत्वमभ्युपैति तदा प्रतिज्ञाहानिः, न विरुद्धो हेतुः, नाप्यनैकान्तिको
विपक्षाभावात् । केवलं प्रतिज्ञार्थहानमेवास्य पराजयस्थानम् । विप्रतिपत्तेः
स्वसाध्यविरुद्धप्रतिपत्तेरिति सर्वमवदातम् ॥ २ ॥


प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञा
न्तरम् ॥ ५ । २ । ३ ॥


एतद् व्याचष्टे, प्रतिज्ञातोऽर्थो मीमांसकं प्रति वैशेषिकेण अनित्यः शब्द
इति । तस्य साधनम् ऐन्द्रियकत्वाद् घटवद् इति, एवमुक्तेऽस्य प्रतिषेधो मीमां
सकेन
क्रियते प्रतिदृष्टान्तेन हेतुव्यभिचारः । तमाह—सामान्यमैन्द्रियकं नित्यमिति ।
तम्मिंश्च प्रतिषेधे मीमांसकेन कृते धर्मविकल्पात् तदर्थनिर्देश इति यावन्नोच्यते
तावदर्धोक्त एव धर्मविकल्पाद् इत्यनूद्य व्याचष्टे—दृष्टान्तप्रतिदृष्टान्तयो र्घट
सामान्ययोः साधर्म्यमैन्द्रियकत्वं तद्योगे धर्मभेदात् सामान्यमैन्द्रियकं सर्वगतम्,
ऐन्द्रियकस्त्वसर्वगतो घट इति धर्मविकल्पात् तदर्थं प्रतिज्ञातार्थसिद्ध्यर्थं शब्दस्या
सर्वगत्वं मीमांसकं प्रति प्रतिपादयितुं निर्देशः । तस्य हि शब्दस्यासर्वगतत्वमसिद्धम् ।
प्रश्नपूर्वकं निर्देशस्वरूपमाह—कथम् ? यथा घटोऽसर्वगतोऽनित्यः, एवं
शब्दोऽप्यसर्वगतोऽनित्य इति । इदं हि प्रतिज्ञावाक्यम् अनित्यः शब्द इतिवत्
असर्वगतः शब्द इति मीमांसकं विप्रतिपन्नं प्रति निर्देशात्, न तु कृतकत्वा
676 दितिवदुदाहरणसाधर्म्याद्यस्य2409 हेतुलक्षणमस्ति ।


साध्यनिर्देशः प्रतिज्ञा इति तु प्रतिज्ञालक्षणयोगात् प्रतिज्ञान्तरमेव । यद्यप्यस्य
मनसि द्वयं विपरिवर्तते2410 असर्वगतत्वं साधयित्वा मया असर्वगतत्वे सतीति
ऐन्द्रियकत्वं हेतुर्विशेषणीय इति, तथाप्येतदनेन न कृतं किं त्वसर्वगतः शब्दो
घटवदित्युक्त्वैव विरतः । परार्थे चानुमाने वचनगता गुणदोषा विचार्यन्ते, न तु
वचनानपेक्षं वस्तु ।


तदिदमाह—असर्वगतः शब्द इति द्वितीया प्रतिज्ञा हेतुरहिता । अस्य
प्रश्नपूर्वकं निग्रहस्थानत्वमाह—तत् कथम् इति । अनर्थकं निष्प्रयोजन
मिष्टार्थसिद्धेरभावादिति ।


वार्त्तिकं—तत्रानित्यः शब्द इति प्रतिज्ञा प्रथमा । अस्यां सामान्येनैन्द्रियकेण
हेतोरनैकान्तिकत्वात् प्रतिहतो वादी प्रतिवादिना असर्वगतोऽनित्यः शब्द इति
प्रतिज्ञान्तरं पूर्वप्रतिज्ञासिद्ध्यर्थं करोतीत्यनुषज्यते । पृच्छति—कथमिति । उत्तरम्—
साधनसामर्थ्यापरिज्ञानात् । अनित्यः शब्द ऐन्द्रियकत्वाद् घटवत् इत्येतावदुक्त्वा
निराकाङ्क्षो वादी न त्वसर्वगतत्वे सतीति साधनं विशोषितवान् । न चाविशिष्टं
साधनमत्रार्थेऽसमर्थम्, विशिष्टं तु समर्थं, तस्य सामर्थ्यमपरिज्ञायाविशिष्टे तदारोप्या
विशिष्टं साधनं प्रयुक्तवान् । तदेवं निराकाङ्क्षो वादी सव्यभिचारहेतुप्रयोगादेव
पराजीयते न तु प्रतिज्ञान्तरप्रयोगात्2411 । यदि तु वादिन्यपर्यवसितवाद् एव मध्ये
प्रतिवादिना हेतोरनैकान्तिकत्वे उद्भाविते तमेव हेतुमसर्वगतत्वे सतीति विशेष्टुं
मीमांसकं प्रति शब्दस्यासर्वगतत्वं प्रतिजानीते, असर्वगतः शब्द इति प्रतिज्ञाय च
न हेतुं ब्रवीति, तदानैकान्तिकत्वोद्धाराय प्रतिज्ञान्तरकरणात् नानैकान्तिकत्वेन
पराजीयते, अपि तु प्रतिज्ञान्तरादेव । न हि प्रतिज्ञा प्रतिज्ञान्तरं साधयितुम् अर्हतीति ।
सोऽयं प्रतिज्ञामात्रस्यासाधकत्वाप्रतिपत्त्या असाधकस्यैव वा साधकत्वप्रतिपत्त्या
विप्रतिपत्त्या अप्रतिपत्त्या वा2412 पराजीयते । तदेतदाह—न च प्रतिज्ञा प्रतिज्ञान्तरं
677 साधयति ।
तेन प्रतिज्ञा यत्रार्थे समर्था तदपरिज्ञानात् पञ्चावयवसाध्ये च सामर्थ्या
रोपणाद्2413 अपरिज्ञानाद् इति हि श्लिष्टनिर्देशेन प्रसज्यप्रतिषेधपर्युदासौ विवक्षितौ ।
तेनाज्ञानाद् विपरीतज्ञानाच्च प्रतिज्ञान्तरं निग्रहस्थानमिति वार्त्तिकार्थः2414


यत् पुनरिदमुच्यते परैः अत्यन्तासंबद्धमेतद् यत् प्रतिज्ञा प्रतिज्ञासाधनायेति ।
यो हि प्राक् प्रतिज्ञामुक्त्वा हेतूदाहरणादिकं वक्तुं जानाति स कथंचिदनुक्रमं
साधनस्य जानात्येव । जानन् कथमविकलान्तःकरणः प्रतिज्ञामेव प्रतिज्ञासाधनायो
पाददीत इति । तत्र ब्रूमः, नायं प्रतिज्ञया मया प्रतिज्ञा साधनीयेति बुद्ध्या प्रवृत्तः,
किं त्वसर्वगतत्वं शब्दस्य मीमांसकं प्रति साधयित्वा तेनैन्द्रियकत्वं विशिष्या
नैकान्तिकत्वमुद्धरणीयमिति मनोरथेन प्रवृत्तः प्रतिज्ञां कृतवान्—असर्वगतः शब्द
इति । अथास्य प्रतिवाद्यवष्टम्भाद् वा परिषद्दर्शनाद् वा स्तम्भितत्वेन साधना
प्रतिभया तुष्णीं भवतः प्रेक्षावतोऽपि प्रतिज्ञान्तरं संभवति निग्रहस्थानम् । अयं च
विकलान्तःकरणस्य निग्रहो भवद्भिरप्युक्त एव, तदभ्युपगम्याप्रतिभया तूष्णींभावादिति
वदद्भिः । सोऽमीदृशोऽसत्प्रलापो भवद्भिः शास्त्रे निबन्धनीयो न त्वस्माभिरिति
व्यक्तमियं राजकुलस्थितिरिति सर्वं चतुरस्त्रम् ॥ ३ ॥


प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ॥ ५ । २ । ४ ॥


अत्र प्रतिज्ञाहेत्वोरिति प्रतियोगिद्वयमात्रोपलक्षणपरम् । तेन दृष्टान्तादयोऽपि
प्रतियोगिन उन्नेयाः । एतदुक्तं भवति—येषां वाक्यगतानां पदार्थानां मिथो व्याघातः
प्रतीयते, प्रमाणान्तरं च विरोधकं, स विरोधो नाम निग्रहस्थानम् । लक्ष्यस्थितस्य
प्रतिज्ञाग्रहणस्याप्युपलक्षणार्थत्वात् । न चैवं भाण्डलेख्यन्यायः । एकदेशेनाव्यापकेन
समुदायसंग्रहे स हि भवति, न तु व्यापकेन संग्रहे । व्यापकं चानवयवेन इदं
प्रतियोगिमिथुनयोर्विरोधः । अतो यथाश्रुति तावत् सूत्रं व्याचष्टे वार्त्तिककारः—
678 यत्र प्रतिज्ञा हेतुना विरुध्यते
इति । द्वयोर्विरोधे यस्य प्रमाणान्तरेणानुग्रहः, तेनेतरद्
बाध्यते इति तेन विरुध्यत इत्युच्यते । तद् यत्र प्रतिज्ञया हेतुर्विरुध्यते, तदुदाहरति—यथा
गुणव्यतिरिक्तं द्रव्यं भेदेनाग्रहणादिति ।
अत्र हि भेदेनाग्रहणादित्यनेन
ग्रहणप्रतिषेधेन ग्राह्याभाव उपलक्ष्यते । तेनैष हेत्वर्थो भवति गुणव्यतिरिक्तं
द्रव्यमव्यतिरेकादिति । सोऽयं प्रतिज्ञाहेतुपदयोर्व्याप्तिस्मरणानपेक्ष एव परस्परव्या
घातोऽस्तिनास्तिपदयोरिव । न चैवंविधः शब्दे नित्यत्वकृतकत्वयोर्येन कृतकत्व
वद्विरुद्धोऽयं हेत्वाभासः स्यात् । तत्र हि कृतकत्वस्य अनित्यत्वेन व्याप्तिमनुस्मृत्य
विरोधः प्रतीयते2415, न त्वयं तथा, अस्ति नास्ति इतिवत् स्वभावविरोधात् । यद्यप्य
यमसिद्धोऽपि हेत्वाभासस्तथाप्यस्यासिद्धिर्बाधकं प्रमाणान्तरमनुसृत्य प्रति
पत्तव्या, प्रतिज्ञाविरोधस्तु उच्चारणमात्रादेव 2416प्रथमतरमवगम्यत इति । तेनैव
दूषिते हेतौ नासिद्धिः पश्चात्तनी दूषणत्वाय कल्पते, भस्मीकृते दहनवत् ।
प्रतिज्ञाहेत्वोर्विरोधमात्रेणैव निग्रहे सिद्धे सुहृद्भावमात्रेण प्रतिज्ञाया बलवत्तास्मरणम्,
प्रतिज्ञायाश्चात्र बलवत्त्वं प्रमाणान्तरानुग्रहात् । तथा हि दर्शनस्पर्शनाभ्यामेकार्थ
प्रतिसन्धानाद् रूपादिव्यतिरिक्तं द्रव्यं सिध्यतीति तदनुगृहीता प्रतिज्ञैव हेत्वर्थं
बाधत इति । एतेनैवेति लक्षणेन । श्रमणा गर्भिणीति । श्रमणा ब्रह्यचारिणी
नान्तर्वत्नी भवितुमर्हति । जितेन्द्रियस्योपस्थसंयमो हि ब्रह्मचर्यम् । न चासाधनाङ्गस्य
प्रतिज्ञाया वचनादेव निगृहीत इति कृतं तद्विरोधोद्भावनेन । निष्पादितक्रिये
कर्मण्यविशेषाभिधायिनो दूषणस्य दूषणन्यायातिपातादिति साम्प्रतम्, प्रतिज्ञाया
साधनाङ्गत्वस्य प्रथम एवाध्याये दर्शितत्वात् । हेतुविरोधोऽपि । यत्र हेतुना
प्रमाणान्तरानुगृहीतेन प्रतिज्ञा बाध्यते, यथा सर्वं पृथगिति प्रतिज्ञा, न किञ्चिदेक
मित्यर्थः । हेतुः—समूहे भावशब्दप्रयोगादिति, एकसमुच्चये घटादिशब्दप्रयोगा
दित्यर्थः । नास्त्येकम्, एकसमुच्चयश्चेति वचने मिथो विरुध्येते, विनैव व्याप्त्य
नुस्मरणमिति । न च सर्वनास्तित्ववादिनो नैकसमुच्चयोऽप्यस्तीति वक्तव्यम्,
679 असति हेतौ साध्यसिद्धेरयोगात् । न च कल्पितस्य हेतोः साधनाङ्गतेति तत्र तत्र
निवेदितम् । अत्र चैकसमुच्चयस्य प्रमाणानुग्रहान्नैकं किञ्चिदिति प्रतिज्ञा हेतुना
बाध्यते । एतेन लक्षणेन प्रतिज्ञाया दृष्टान्तविरोधोऽपि वक्तव्यः यथा अनित्यः
शब्दः प्रमेयत्वात् । यत्प्रमेयं तन्नित्यं यथा आकाशमिति साधर्म्यदृष्टान्तः । यद्यप्यत्र
वस्तुतो हेतुरनैकान्तिकः, तथापि दृष्टान्तस्य प्रतिज्ञाविरोधेनैव निगृह्यते, विरोधस्य
वाक्ये प्रथममवगतेः । अनित्यं घटाद्युन्नीयानैकान्तिकत्वप्रतिपत्तेस्तु जघन्यत्वादिति ।
हेतोश्च दृष्टान्तादिभिर्विरोध एतेन वक्तव्य इत्यनुषज्यते । यथा, अनित्यः शब्द
ऐन्द्रियकत्वात् अनैन्द्रियकद्व्यणुकवदिति । अत्राप्यैन्द्रियकत्वानैन्द्रियकत्वयोः शब्दतो
विरोधः प्रतीयते, साधनवैकल्पं तु वस्तुस्वभावालोचनयेति विशेषः । एवमुपनयेन
विरोधोऽनैन्द्रियकश्च शब्द इति । अत्रापि वस्तुस्वभावालोचनया अनैन्द्रियकत्व
स्यासिद्धिः प्रतीयते, शब्दतस्तु विरोध इति । प्रमाणविरोधश्च प्रतिज्ञाहेत्वोर्व
क्तव्यः । यद्यपि बाधितविषयं हेत्वाभासान्तर्गतं तथापि इहाप्यस्तीति विरोधहेत्वा
भासयोरत्र निग्रहस्थानयोः समावेशोऽस्तु, न च क्वचिद् विषये समावेशाद् आनर्थ
क्यम्, विषयान्तरे समावेशाभावादर्थवत्त्वात् । दर्शितं चानन्तरमेव भिन्नविषयत्वमिति ।
तदेवं साधनवादिनो विरोधं निग्रहस्थानमभिधायोत्तरवादिनोऽपि विरोधो
निग्रहस्थानमनेनैव संगृहीतमित्याह—परपक्षसिद्धेन गोत्वादिनेति । यदा हि बौद्धेन
प्राभाकरं
प्रति साध्यते अनित्यः शब्दः श्रावणत्वादिति, यद्यनित्यत्वं न भवेदश्रावणत्वं2417
स्यादिति, तदा प्राभाकरोऽनैकान्तिकत्वमुद्भावयति श्रावणं शब्दत्वं नित्यं चेति,
तदस्यानैकान्तिकत्वोद्भावनं स्वकीयं शब्दत्वनिराकरणविरुद्धमिति । परपक्षसिद्धं
गोत्वाद्यपीदृश एव विषये विरुद्धं द्रष्टव्यम् । स्वसिद्धान्त विरुद्धं च साधनं विरुद्ध
मित्याह—स्वपक्षानपेक्षं च । ननु यद्यनैकान्तिकोद्भावनमपि विरुद्धं कस्तर्ह्यनै
कान्तिकत्वापादनस्य विषय इत्यत आह—उभयपक्षसंप्रतिपन्नस्त्विति ।
देशयति—दृष्टान्ताभासा इति । अवयवान्तरं हि प्रतिज्ञाहेत्वादिभ्य उदाहरणम्, तेन
680 हेत्वाभासोक्त्या तस्य संग्रहः । पारम्पर्येण तूदाहरणाभासस्य हेतुदूषकत्वेन सर्वमेव
हेतुदूषकमविशेषादिति भावः । परिहरति—हेत्वाभासपूर्वकत्वादिति । हेत्वाभासा
इत्यत्र हेतुशब्दः स्वार्थमपरित्यज्य दृष्टान्तमुपलक्षयति । उपलक्षणे हेतुरुक्तः ।
हेत्वाभासपूर्वकत्वाद् हेत्वाभासप्रधानत्वात् दृष्टान्ताभासेनापि हेतुरेव दूष्यते यतः । न
चैतावता प्रतिज्ञादिदोषोपलक्षणप्रसङ्गः । न हि यत्र यत्र निमित्तमस्ति तत्सर्वमुप
लक्षणीयम्, किं तु यदुपलक्ष्यते तत्रावश्यं निमित्तं वक्तव्यम् । न च सूत्रकारस्य सर्वत्र
लाघवादरो दृढ इत्युक्तम् । तस्मात् सर्वं रमणीयम् ॥ ४ ॥


पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः ॥ ५ । २ । ५ ॥


ऐन्द्रियकत्वस्य हेतोरनैकान्तिकत्वोद्भावनेन शब्दानित्यत्वपक्षे प्रतिक्षिप्ते वादी
प्रतिवादिनं प्रति ब्रूयादनैकान्तिकत्वमुद्दिधीर्षुः—कः पुनराहानित्यः शब्द इति ।
यद्यहमनित्यः शब्द इति प्रतिज्ञामपह्नोतुं शक्नोमि तदा न सामान्येन नित्येन मे हेतुर
नैकान्तिको भवतीति बुद्ध्यपहतोऽपह्नुते, सोऽयमेवंवादी न शक्योऽनैकान्तिकत्वेन
जेतुम्, अपह्नवस्यापह्नवत्वावेदनेऽनैकान्तिकत्वोद्धारात् । तस्मादनैकान्तिकस्यानै
कान्तिकत्वस्थापनायापह्नवस्यापह्नवत्वमुद्भावनीयम् । तत्र किमपह्नवत्वमुद्भाव्या
नैकान्तिकत्वं व्यवस्थाप्य निगृह्यताम्, उतापह्नवादेवेति संशये अपह्नवत्वोद्भावनादेव
पूर्वापरपराहतेर्निगृह्यते, नानैकान्तिकत्वेन, तत्पूर्वकत्वादनैकान्तिकत्वस्थापनस्य ।


तस्माद् यदुक्तं कीर्त्तिना, किमिदानीं हेत्वाभासादुत्तरप्रतिज्ञासंन्यासापेक्षया
तस्य प्रतिवादिनो हेत्वाभास एवाद्यं निग्रहस्थानमिति, तदपास्तम्, प्रतिज्ञासंन्यासस्यैव
पूर्वभावित्वात् । यदपि तेनोक्तम्, पक्षप्रतिषेधे तूष्णींभवतस्तूष्णींभावो नाम निग्रहस्थानं
प्रलपतश्च प्रलपितं नामेत्याद्यपि वाच्यं स्यादिति, तदप्यसाम्प्रतम् । न हि तूष्णींभावेन
प्रलपितादिभिर्वा शक्यमनैकान्तिकत्वमुद्धर्तुम्, यथा प्रतिज्ञार्थापह्नवेन । न चैते
हेत्वाभासोद्भावनस्य पुरस्तात्तनाः । तस्मादेतदप्यनिरूपिताभिधानाद् यत्किञ्चिदिति ॥ ५ ॥


681

अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ॥
५ । २ । ६ ॥


व्याख्यातुं निदर्शनमाह—निदर्शनम्, एकप्रकृतीदं व्यक्तं भूतभौतिकेन्द्रियम्,
एकप्रकृतीनां विकाराणां परिमाणात् । तद् यथा एकमृत्पूर्वा घटशरावोदञ्चनादयः
परिमिता दृष्टाः, यावान् प्रकृतेर्व्यूहः संस्थानं तावान् विकार इति । न 2418चैवमुदाहरणं
साधनविकलमित्याह—दृष्टं चेति । उपनयमाह—अस्ति चेदमिति । निगमनमाह—
तदेकप्रकृतीनामिति । अस्य परिमितत्वस्य हेतोर्व्यभिचारेण प्रत्यवस्थानं प्रति
वादिनः । नानाप्रकृतीनां घटरुचकादीनाम् एकप्रकृतीनां च घटशरावादीनां दृष्टं
परिमाणमिति ।
एवं प्रत्यवस्थिते प्रतिवादिनि वादी पश्चात्परिमितत्वं हेतुं
विशिनष्टि—एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शना
दिति ।
प्रकृतिः स्वभावः, एकस्वभावसमन्वये सति इत्यर्थः । एकप्रकृतिसमन्वयं
स्फुटयति—सुखदुःखमोहसमन्वितं हीदं सर्वं व्यक्तं परिमितं गृह्यते । तथा हि
मैत्रदारेषु नर्मदायां मैत्रस्य सुखबुद्धिर्भवति, तत्सपत्नीनां च दुःखबुद्धिः । चैत्रस्य
तामविन्दतो रणरणकवतो मोहो विषादः । नर्मदया च भावान्तराणि व्याख्यातानि ।
तदेवं यत्रैकस्वभावसमन्वये सति परिमाणं तत्रैकप्रकृतित्वमेव । तद् यथा एकमृत्पि
ण्डस्वभावेषु घटशरावोदञ्चनादिषु । घटरुचकादयस्तु नैकस्वभावाः, मार्दसौवर्णादीनां
स्वभावानां भेदात् । निदर्श्यात्र सूत्रं योजयति—तदिदमविशेषोक्ते हेतौ प्रतिषिद्ध
इति । अस्य निग्रहस्थानत्वमाह—सति च हेत्वन्तरभाव इति । अपि च यदि
हेत्वन्तरवचने विश्वमेकप्रकृति साध्यते तदा निदर्शनं नास्ति, सर्वस्य पक्षे निक्षेपात् ।
अथ निदर्शनसिद्ध्यर्थं किञ्चित्पक्षाद् व्यतिरिच्यते, ततस्तेनैवानैकान्तिकत्वम् ।
अन्वितानामपि परिमितानां भिन्नप्रकृतिकत्वादित्याह—हेत्वन्तरवचने सति यदि
हेत्वर्थनिदर्शन
इति । हेतुः साधनम्, अर्थः साध्यः, तौ हेत्वर्थौ । निदर्शयति
682 व्याप्यव्यापकभावेनेति निदर्शनः । हेत्वर्थयोर्निदर्शनो हेत्वर्थनिदर्शनो दृष्टान्तः । स
यद्युपादीयते, ततो नेदं व्यक्तमेकप्रकृति भवति, दृष्टान्तस्य प्रकृत्यन्तरोपादानात् ।


वार्त्तिकम्—साधनान्तरोपादाने पूर्वस्येति । दत्तोत्तरावसर एव वादिनि यदि
प्रतिवादी हेत्वर्थं व्यभिचारयति, वादी च तृतीयपदके स्थितस्तं हेतुं विशेषयति, तदा
किं साधनान्तरोपादानात् निगृह्यताम्, उतानैकान्तिकसाधनाभिधानात्2419 ? न
तावदनैकान्तिकसाधनाभिधानादस्य निग्रहो हेतुविशेषणेन तस्य समाहितत्वादिति ।
तस्माद्धेत्वन्तरवचनादेव निगृह्यते । पूर्वस्य वस्तुतोऽसमर्थस्यासामर्थ्यख्यापनात्,
सामर्थ्ये वा 2420हेत्वन्तरानर्थक्यादिति सूक्तम् ॥ ६ ॥


॥ इति प्रतिज्ञाहेत्वन्यतराश्रितनिग्रस्थानपञ्चकविशेषलक्षणप्रकरणम् ॥

  1. वादन्यायः पृ. २

  2. घटादिर्नि°C

  3. दृष्टान्ते दोषःC

  4. °निरित्युच्यतेC

  5. प्रतिदृष्टान्तस्य प्रतिपक्षस्य C

  6. °पक्षे C

  7. घट ? शब्द मनि…हृत्य
    घटस्यैन्द्रि°
    C

  8. साधर्म्यादस्यC

  9. मनसि वर्ततेC

  10. प्रतिज्ञान्तरे प्रयो°J

  11. विप्रतिपत्त्या
    अप्रतिपत्त्या वा
    J

  12. प्रतिज्ञायाः इति टिप्पनीJ

  13. इति श्लिष्टनिर्देशः…निग्रहस्थानमितिC

  14. नित्यत्वेन व्याप्तिस्मरणापेक्ष एव विरोधः प्रतीयतेC

  15. प्रथमत एवC

  16. भवेत् श्रावणत्वं नC

  17. चैतदुदा°C

  18. साधनोपादानात्C

  19. °नर्थक्यमितिC