ननु यदि भवदीयानीमानि जैनसिद्धान्तसूत्राणि तर्हि भवतः पूर्वं कानि किमीया4
नि वा तान्यासन्निति ? अत्यल्पमिदमन्वयुङ्क्थाः । पाणिनि-पिङ्गल-कणादा-ऽक्षपादादि
भ्योऽपि पूर्वं कानि किमीयानि वा व्याकरणादिसूत्राणीत्येतदपि पर्यनुयुङ्क्ष्व ! अनादय
एवैता विद्याः संक्षेपविस्तरविवक्षया नवनवीभवन्ति तत्तत्कर्तृकाश्चोच्यन्ते । किं नाश्रौषीः
न कदाचिदनीदृशं जगत् इति ? यदि वा प्रेक्षस्व वाचकमुख्यविरचितानि सकलशास्त्र
चूडामणिभूतानि तत्त्वार्थसूत्राणीति ।
यद्येवम्--अकलङ्क-धर्मकीर्त्त्यादिवत् प्रकरणमेव किं नारभ्यते, किमनया सूत्र
कारत्वाहोपु5रुषिकया ? मैवं वोचः; भिन्नरुचिर्ह्ययं जनः ततो नास्य स्वेच्छाप्रतिबन्धे
लौकिकं राजकीयं वा शासनमस्तीति यत्किञ्चिदेतत् ।
तत्र वर्णसमूहात्मकैः पदैः, पदसमूहात्मकैः सूत्रैः, सूत्रसमूहात्मकैः प्रकरणैः,
प्रकरणसमूहात्मकैः आह्निकैः, आह्निकसमूहात्मकैः पञ्चभिरध्यायैः शास्त्रमेतदरचयदा
चार्यः । तस्य च प्रेक्षावत्प्रवृत्त्यङ्गमभिधेयमभिधातुमिदमादिसूत्रम्--
अथ प्रमाणमीमांसा ॥ १ ॥
अथ-इत्यस्य अधिकारार्थत्वाच्छास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य प्रमाण
स्याभिधानात् सकलशास्त्रतात्पर्यव्याख्यानेन6 प्रेक्षावन्तो बोधिताः प्रवर्तिताश्च भवन्ति ।
आनन्तर्यार्थो वा अथ-शब्दः, शब्द-काव्य-छन्दोनुशासनेभ्योऽनन्तरं प्रमाणं मीमांस्यत