स548 हि साध्यप्रतिपत्तौ वा, अविनाभावग्रहणे वा, व्याप्तिस्मरणे वोपयुज्येत ? ।
न तावत् प्रथमः पक्षः, यथोक्तादेव हेतोः साध्यप्रतिपत्तेरुपपत्तेः । नापि द्वितीयः,
विप549क्षे बाधकादेवाविनाभावग्रहणात् । किंच, व्यक्तिरूपो दृष्टान्तः । स कथं साकल्येन
व्याप्तिं गमयेत् ? । व्यक्त्यन्तरेषु व्याप्त्यर्थं दृष्टान्तान्तरं मृग्यम् । तस्यापि व्यक्तिरूपत्वेन
साकल्येन व्याप्तेरवधारयितुमशक्यत्वादपरापरदृष्टान्तापेक्षायामनवस्था स्यात् । नापि
तृतीयः, गृहीतसम्ब550न्धस्य साधनदर्शनादेव व्याप्तिस्मृतेः । अगृहीतसम्बन्ध551स्य दृष्टान्ते552
ऽप्यस्मरणात् उप553लब्धिपूर्वकत्वात् स्मरणस्येति ॥ १९ ॥
दृष्टान्तस्य लक्षणमाह--
स व्याप्तिदर्शनभूमिः ॥ २० ॥
स इति दृष्टान्तो लक्ष्यं व्याप्तिःलक्षितरूपा दर्शनम् परस्मै प्रतिपादनं
तस्य भूमिःआश्रय इति लक्षणम् ।
ननु यदि दृष्टान्तोऽनुमानाङ्गं न भवति तर्हि किमर्थं लक्ष्यते ? । उच्यते ।
परार्थानुमाने बोध्या554नुरोधादापवादिकस्योदाहरणस्यानुज्ञास्यमा555नत्वात् । तस्य556 च दृष्टा
न्ताभिधानरूपत्वादुपपन्नं दृष्टान्तस्य लक्षणम् । प्रमातुरपि कस्यचित् दृष्टान्तदृष्टबहि
र्व्याप्तिबलेनान्तर्व्याप्तिप्रतिपत्तिर्भवतीति स्वार्थानुमानपर्वण्य557पि दृष्टान्तलक्षणं नानुप
पन्नम् ॥ २० ॥
तद्विभागमाह--
स558 साधर्म्यवैधर्म्याभ्यां द्वेधा ॥ २१ ॥
स दृष्टान्तः साधर्म्येण अन्वयेन वैधर्म्येण च व्यतिरेकेण भवतीति
द्विप्रकारः ॥ २१ ॥
साधर्म्यदृष्टान्तं विभजते--
साधनधर्मप्रयुक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तः ॥ २२ ॥
साध559नधर्मेण प्रयु560क्तो न तु काकतालीयो यः साध्य561धर्मस्तद्वान् साधर्म्य
दृष्टान्तः । यथा कृतकत्वेनानित्ये शब्दे साध्ये घटादिः ॥ २२ ॥
वैधर्म्यदृष्टान्तं व्याचष्टे--
साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तियोगी
वैधर्म्यदृष्टान्तः562 ॥ २३ ॥
साध्यधर्मनिवृत्त्या प्रयुक्ता न यथाकथञ्चित् या साधनधर्मनिवृत्तिः तद्वान्
वैधर्म्यदृष्टान्तः । यथा कृतकत्वेनानित्ये शब्दे साध्ये आकाशादिरिति ॥ २३ ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तद्वृत्तेश्च
प्रथमस्याध्यायस्य द्वितीयमाह्निकम् ॥
॥ अथ द्वितीयोऽध्यायः ॥
प्रथमाह्निक
-
दृष्टान्तः ।
↩ -
वर्तमानस्य हेतोः ।
↩ -
पुंसः ।
↩ -
पुंसः ।
↩ -
सति ।
↩ -
दर्शनम् ।
↩ -
शिष्य॰ ।
↩ -
अनुमंस्य
↩
मानत्वात् । -
उदाहरणस्य ।
↩ -
प्रस्तावे ।
↩ -
ता--मू॰--सं-मू॰--प्रत्योः सवृत्तिकताडपत्रीयसूत्रे च स
↩
नास्ति । -
साधनमेव धर्मः ।
↩ -
कृतः ।
↩ -
साध्यो धर्म॰--डे॰ ।
↩ -
इत्याचार्यश्रीहेमचन्द्रविरचितायां
↩
प्रमाणमीमांसायां प्रथमस्याध्यायस्य द्वितीयमाह्निकम् । प्रथमोऽध्यायः समाप्तः--ता--मू॰ । इत्या...द्वितीया
ह्निकम् । प्रथमाध्यायः--सं-मू॰ ।