चतुर्तः परिच्छेदः


प्रमाणान्तरभावोऽपि
भाष्यकृ
त्प्रतिपादितः ।

अभावेऽपि232 प्रमाभावो नास्तीत्येतद्विनिश्चये ॥

अर्थस्यासंनिकृष्टस्य233 तथाचाह
कुमारिलः

भाष्यकारोक्तमेवार्थमुपपत्त्योपदर्शयन् ॥

26
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।

वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता234

वस्तुसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रिता समाश्रया

क्षीरे दध्यादि यन्नास्ति प्रागभाव स उच्यते ॥

नास्तिता पयसो दध्नि प्रध्वंसाभावलक्षणम् ।

गवि योऽश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते ॥

शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः ।

शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते ॥

क्षीरे दधि भवेदेव दध्नि
क्षीरं
घटे पटः235

शशे शृङ्गं236 पृथिव्यादौ चैतन्यं मूर्त्तिरात्मनि ॥

अप्सु गन्धो रसश्चाग्नौ वायौ रूपं च तैः237 सह ।

व्योम्नि संस्पर्शता वेति न चेदस्य प्रमाणता ॥

न च स्याद्व्यवहारोऽयं कारणादिविभागतः ॥

प्रागभावादिभेदेन नाभावो विभिद्यते यदि ।

न वा वस्तुन एभिः स्युर्भेदास्तेनास्य वस्तुता238

कार्यादीनामभावः कार्यो भाव कारणादितः239

यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यदस्त्ययम्240

तस्माद् घटादिवद्वस्तु प्रमेयत्वाच्च गृह्यताम् ॥

न चौप241चारिकं वात्र भ्रान्तिर्वापि यदृच्छया ।

भवत्यतो न सामान्यविशेषात्मकता वृथा ॥

प्रत्यक्षादेरनुत्पत्ति प्रमाणाभाव उच्यते ।

आत्मनः परिणामो वाआत्मनो परिणामो वा विज्ञानं स्वान्यवस्तुनि ।

स्वरुपपररूपाभ्यां242 नित्यं सदसदात्मके ॥

वस्तु विज्ञायते वस्तुनि ज्ञायते कैश्चिद् रूपं किंचित् कदाचन ॥

यस्य यत्र यदोद्भूतिर्जिघृक्षा वापि जायते ।

विद्यतेऽनुभवस्तस्य तेन च व्यपदिश्यते ॥

27
तस्योपकारकत्वेन वर्त्तते243 यस्तदेतरः ।

उभयोरपि संवित्त्वाद्244 उभयावगमोऽस्त्विति ॥

प्रत्यक्षव्यवहारस्तु प्रत्यक्षाद्यवतारस्तु भावांशो गृह्यते यदा ।

व्यापारस्तदनुत्पत्तिरभावांशे जिघृक्षिते245

न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः ।

भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥

ननु भावादभिन्नत्वात् संयोगो नाह्यस्ति तेन च ।

न ह्यत्यन्तमभेदोऽस्ति246 रूपादिवदिहापि नः ॥

धर्माणां भेद इष्टो हि धर्म्यभेदे247ऽपि नः स्थिते248

उद्भवाभिभवात्मत्वाद् ग्रहणं वाऽवतिष्ठते ।

तत्संबन्धे सदित्येवं सद्रूपत्वं प्रतीयते ॥

नास्त्यत्रेद249मितीत्थं तु तत् तत्संयोगहेतुकम् ।

गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् ।

मानसं नास्तिताज्ञानं जायतेऽक्षा250नपेक्षया ॥

मानं कथमभावश्चेत् प्रमेयं चात्र कीदृशम् ।

तत्र यो यदभावः251स्यान्मानमप्येवमिष्यताम् ॥

भावात्मके यथा माने नाभावस्य प्रमाणता ।

भावात्मकस्य मानत्वं नच राजाज्ञया स्थितम् ॥

परिच्छेदफलत्वेन252 प्रामाण्यं स्याद् द्वयोरपि ॥

यदि चास्य प्रमाणत्वमभावत्वेन नेष्यते ।

वस्तुनः कारणत्वं हि दृष्ट253मित्यभिमानतः ।

नैव लिङ्गप्रमेयत्वे भवेतां254 तद्वदेव हि ॥

तथा सति समस्तोऽपि व्यवहारो न सिध्यति ।

प्रमाणानामनुत्पत्तेर्न चाभावस्य धर्मता255

28
यत्राभावोऽस्ति तेनास्याः256 संबन्धो नैव सिध्यति ।

चा संनिहित257स्तत्र तस्य धर्मो भवेदयम् ॥

न च तस्य प्रमेयत्वं धर्मधर्मित्ववर्जनात् ।

अभावे न तु सम्बन्धोअभावे258 नतु संबन्धो भवेत्तद्विषयत्वतः ॥

यज्ज्ञानाविषयत्वं च ज्ञाने मेयं न259 विद्यते ।

संयोगसम260वायादिसंबन्धो नैव विद्यते ॥

नागृहीते च धर्मत्वं गृहीते सिद्धसाधनम् ।

अभावशब्दवाच्यत्वात् प्रत्यक्षादेव भिद्यते ॥

प्रमाणमभावो हि प्रमेयाणामभावतः ।

भावोऽपि हि प्रमाणेन स्वानुरूपेण मीयते ॥

अभावस्य प्रमाणत्वं न प्रमेयाद्यभावतः261

अभावोऽपि प्रमाणेन स्वानुरूपेण मीयते ॥

प्रमेयत्वाद्ध्यभावस्तु262 तस्माद् भावात्मकात् पृथक्263 ॥ इति ॥ छ ॥

अत्रोच्यते यथाऽभावो264 न प्रमाणान्तरं मतम् ।

न हि स्वरूपं तस्यास्ति परतोऽनुपलब्धितः ॥

एकोपलम्भानुभवादिदं265
नोपलभे
इति ।

बुद्धेरुपलभे वेति कल्पिकायाः समुद्भवः ॥

उपलम्भनिषेधश्चेदेवमु266परिनिश्चितः ।

तस्मादनुपलम्भात्तु प्रमेयोऽ267भावनिश्चयः ॥

अत्रोच्यते, विविक्तस्य वेदनाद्धि स निश्चयः ।

तदन्यथावेति मतं यतः पक्षान्तरं न हि ॥

विविक्तस्यो268पलम्भाच्चेज्269ज्ञानभावस्य निश्चयः ।

विविक्तस्योपलम्भश्चेत् परतः सिद्धसाधनम् ॥

29
स्वविविक्तोपलम्भात्तु नाभावस्य विनिश्चयः ।

नोपलम्भस्य संदेहे तदभावविनिश्चयः ॥

उपलम्भस्य भावश्चेत् सतस्तस्य निषिद्धता270

न ह्यन्यान्योपलभ्येषु271 नास्तितानुपलम्भतः272

न च सोऽनुपलम्भोऽपि प्रतिषेधान्यवस्तुनः ।

अभावे तु प्रमाणस्य प्रमेयं नेति तत्कुतः ॥

प्रमाणाभावोऽन्यथा नो चेदर्थापत्तिरियं सदा ।

न चार्थापत्तिरत्रास्ति नादृष्टं सर्वदैव न ॥

प्रमाभावे तु साध्ये स्यादभावः कोऽपरः प्रमा ॥

गृहीत्वा मानसं273 भावं स्मृत्वा च प्रतियोगिनम् ।

मानसं नास्तिताज्ञानं भवेत्पूर्वग्रहे सति ॥

न चाभावः पुरा दृष्टो भावादेव हि मीयते ।

घटमानं पुरा दृष्टमिति चेत् तेन नास्ति तत् ॥

प्रामाण्या274भावसिद्धिश्चेत् प्रमेयाभावतः275, कथम् ? ।

प्रमाणाभावतश्चेत्त दर्थापत्तिर्भवेदियम् ॥

नियमश्च न तत्रास्ति पूर्वमेवोपपादितम् ।

एतदेव द्वयाभाव इति तत् साध्य साधनम् ॥

अन्योन्यतश्चेन्न भेदस्तथा सति भवेद् द्वयोः ।

सहोपलम्भनियमादभेद उपपादितः ॥

सहोपलम्भनियमादभेदोमानमेययोः ॥

सहोपलम्भनियमादेतयोस्तदभावयोः29-7

अन्योपलम्भतो276 वापि किमभावः प्रसिध्यति ॥

तद्विविक्तोपलम्भाच्चे277दर्थेनापि विविक्तता ।

प्रमाणभावसंसिद्धिः किमिदानीमनर्थिका ॥

अथ प्रमेयाभावेऽपि केवलग्रहणं भवेत् ।

प्रमाणान्तरभावे तु न केवलविदन्वयः ॥

30
एवं प्रमाणाभावेऽपि मेयाभावो न सिद्धति ।

उपलब्धिलक्षणा278त्तत् समानमुभयोरपि ॥

तस्माद्विविक्ततामात्रमभावव्यपदेशभाक् ।

विधिकेन तु निर्द्देशः शीलापुत्रशरीरवत् ॥

तस्मादनादिसंसारव्यवहारप्रतीतितः ।

तद्विकल्पोदयादेव भावव्यवहृतिः परा ॥

नार्थाभाव प्रमाभावादपरः कश्चिदीक्ष्यते ।

तदन्यभाव एवात्र प्रमाभाव प्रमान्वितः ॥

अभावबुद्धिग्राह्यो यः सोऽभाव इति नैव सत् ।

अभावबुद्धि किं काचिद्279 रूपादि व्यतिरेकवित् ॥

यस्याभावोपरोऽसिद्धस्तस्य तद्वन्न सिध्यति ।

प्रमेयप्रतिभासेन स्फुटं बुद्धिः प्रसाध्यते ॥

अन्यथा सर्व एव स्या280दनायासेन वेदकः ।

तथासति पदार्थानां निर्णयः सुखसाधनः ॥

कुटकटेत्युच्यते सोऽयं कुटबुद्धौ चकास्ति नः ।

एवं घटादिभेदोऽपि परस्परविवेकतः ॥

न चकास्त्येव तद्भेदात् समानमुभयोरपि ।

अभावव्यवहारोऽयमिति चेदस्ति संगतः281

व्यवहारमात्र282मेतत् तदन्यस्योपलम्भने ।

अभावेन विनान्यत्वमथ चेन्न प्रसिध्यति ॥

स्वकारणादसिद्धं चेत् तदभावात् कथं तथा ।

स्वकारणादेवसिद्धमभावात्तत्प्रतीयते ॥

स्वभावग्राहिणो283 व्यक्तादसिद्धार्थात्कुतोऽन्यजः ।

अथ स्वरूपं भावान्न भिन्नं न्नाप्यभेदवत् ॥

भेदाभेदावधियोगाद्284 भेदाभेदवदिष्यते ।

भिन्ना इति परोपाधिरभिन्ना इति वा पुनः ॥

31
भावात्मा वा प्रपञ्चोऽयं संसृष्टेष्वेव लक्ष्यते ।

अभावस्य स्वरूपेण यदि तावद्ग्रहः स्वतः ॥

स्वरूपेण प्रतीतस्य भेदकत्वं कथं मतम् ? ।

भेदकत्वात् प्रतीतिश्चेत् पृथग्भावोऽप्यथो भवेत् ॥

स्वरूपेण प्रतीतस्य भेदकत्वं किमुच्यते285

तदपेक्षो ऽस्य भेदकश्चेत् परभावो न किं तथा ॥

स्वरूपसमतायां चेद286भावो न भेदकः ।

न हि तस्यापि रूपेण प्रतीतेर्भेदकस्थितिः ॥

स्वरूपेण प्रतीतोऽपि भेदको नीलपीतवत् ।

न नीलपीतरूपेण स्वरूपादतिरिच्यते ॥

भेदकं स्वरूपेण नेदं कर्त्तृत्वसंगमात् ।

अथ स्वरूपं तत्तस्य287 कारणादेव जायते ॥

सर्वत्र कारणादेव भेदाभावः परो वृथा ।

कारणादेव भवतीत्येतदप्यतिदुर्घटम् ॥

स्वकारणात् स्वयं जातः कथमन्यस्य भेदकः ।

दृश्यते भेदकत्वं चेत् ? दृश्यते दृश्यते यदि ॥ ?

पदार्था दर्शनादन्योऽन्योऽ288त्रार्थ उपपद्यते ।

स प्रसज्यनिषेधो वा प289र्युदासोऽथवा भवेत् ॥

प्रसज्यप्रतिषेधे हि स एवार्थो न विद्यते ।

पर्युदासे हि सदृश290स्तदन्योऽर्थः प्रतीयताम् ॥

ततोऽस्त्यभावो न परः प्रमाणप्रतिपत्तिभाक् ।

अथाभावप्रतीतेर्यो विषयः स तथोच्यते ॥

सैवाभावप्रतीतिर्हि प्रसज्यादिविधा भवेत् ।

प्रमाणपञ्चकाभावः पर्युदासो न युच्यते ॥

न जायत इति प्रोक्तं नेदृशी पर्युदासता ।

पर्युदासेऽपि प्राप्तं यत् तदेवानुपलम्भनम् ॥

प्रमाणपञ्चकाभावात् पररूपेण नेयता ते ?

तद्वस्तु तत एवास्यासंकरः291 पर्युदासतः ॥

32
परभावो भवेदत्र यदि तद्रूपता भवेत् ।

अभावादेव तत्प्राप्ता वस्त्वसंकर292संस्थितिः ॥

प्रसज्यप्रतिषेधे293ऽपि वस्त्वसंकरता न किम् ।

स एवाभाव इति चेत् पर्युदासः परो यतः परोऽन्यतः ?

पर्युदासोऽपि नैवायं294 पराभावं विना295 कृतः ।

तस्यापि पर्युदासत्वे पराभावनिराकृतिः ॥

तत्रापीत्यनवस्थेयं कथं296 नाम निवार्यताम् ।

प्रमाणस्यासमाप्तौ च प्रमेयस्यासमाप्तितः ॥

क्षीरे दध्यादि नास्तीति दध्यसंसृज्य297 पाच्यते ।

असंसृष्टं298 हि तद्रूपं प्रत्यक्षादेव सिद्धिभाक् ॥

यदि नाध्य299क्षतः सिद्धिरभावादपि नो भवेत् ॥

यथा स्वरूपं तत्तस्य तदभावनिराकृतम् ।

तथा स्वरूपं तत्तस्य भावान्तरविनाकृतम् ॥

अभावग्रहणे तस्य निषेधो न प्रतीतिभाक् ।

भावान्तरस्याग्रहणे विविक्तत्वं प्रसिध्यति ॥

अयमेवेति यो ह्येष भावे भवति भवेन निश्चयः ।

नैष वस्त्वन्तराभाव संसिध्यत्यनुमामृते300

वस्त्वन्तरत्वसिद्धौ हि तदभावावगतिर्भवेत् ।

अवधारणसिद्धौ च वस्त्वन्तरतया गतिः ॥

एवमन्यतरासिद्धौ301 नैकस्यापि प्रसिद्धता ।

साधारणत302यार्थःस्याद् यदि नाध्यक्षगोचरः303

अध्यक्षा304दन्वयगतौ नाभावोऽपि प्रतीतिभाक् ।

नहि तत्रैव तस्यैवाऽभावः305 सिध्यति तत्त्वभाक् ॥

अवधारणमध्यक्षा306दित्यद्वयनिराक्रिया ॥

33
गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् ।

मानसं नास्तिताज्ञानं जायतेऽ307क्षानपेक्षया ॥

गृहीत्वा वस्तुसद्भावं यदि व्यावृत्तिसंगतम् ।

तदा तत्साध्वन्यथा नो व्यावृत्तिग्रहणं विना ।

वस्त्वसंकरसिद्धिर्या तत्प्रामाण्यसमाश्रिता308

प्रतियोगिस्मृतिः सर्वा प्रतियोगिग्रहात्309 सदा ।

प्रतियोगिग्रहोऽप्येष नाभावग्रहणाद्विना ॥

ततश्च चक्रक310प्राप्ते नैकमप्यत्र सिध्यति ॥

अथाव्याकृतएवार्थो व्यावृत्तत्वेन मीयते ।

तर्हि तथाचायमिति दत्त एव जलाञ्जलिः ॥

अथापि स्यान्निषेधो यः प्रसज्यप्रतिषेधतः ।

स एवाभाव इष्टोऽत्र स चाभाव प्रमा ततः ॥

प्रसज्य311प्रतिषेधोऽयं, निवृत्तिः कस्य भण्यते ? ।

निवृत्तिस्तस्य, तस्मिंश्चाप्रतीते गम्यते कथम् ? ॥

प्रतीतेस्तन्निवृत्तिश्चेद्312 अनिवृत्तिश्चेत् अनिवृत्तिश्च कीदृशी ।

अथापि या स्वतो दृष्टा 313तदन्यत्र निषिध्यते ॥

तद्द्वयोरपि314 दृश्यत्वे निषेधार्थः क उच्यते ।

व्यावृत्तेऽव्याकृतो दृष्टो निषेधः कीदृशोऽपरः ।

अव्यावृत्ते315 तु न 316दृष्टो निषेधः कस्य कुत्र वा ॥

निषेधस्य विधानं चेत् स भेदात्सर्वनष्टता ।

निषेधस्य विधानं चेदृष्टस्योपपत्तिमत् ॥

अन्तरालनियोगश्चे317दन्तरालं318 कथं भवेत् ।

आकाशमन्तरालं तदतो भेदो न सिध्यति ॥

प्रागभावादिभेदेन संभवी कथमुच्यते ।

न शुद्धाकाशदेशस्य सर्वाभावसमानता ॥

34
दध्यादिभेदाद्भेदश्चेत् तदसिद्धौ न सिध्यति ।

प्रागभावाप्रसिद्धौ च दध्युत्पत्तिः कथं भवेत् ? ॥

उत्पत्तिः319 सिध्यते सा चेत्तदा, नास्ति तदा कथम् ? ।

नास्तिता पयसो दध्नि क्षीरात् सिद्धौ न सिध्यति ॥

प्राक् तस्य सिद्धिर्भूतेति तदाभावो न सिध्यति ।

अध्यारोपादभावश्चे320द्वस्तुभावो न सिध्यति ॥

तदाकारातिरेकेण न चाभावोऽस्ति भाविके ।

तस्याभावो बहिः स्याच्चेद्बहिः संवेदनं कुतः ? ॥

दध्नि 321तस्येष्यते भावः केनादः संप्रतीयताम् ? ।

अभावेनेति चेत्तत्र देवेदं विचार्यते ॥

प्रत्यक्षेण मया दृष्टो भाव इति न विद्यते ।

अभावेऽपि प्रतीतिश्चेत् पर्युदासे समाप्यताम् ॥

नचावस्तुन एते स्युर्भेदादित्यपि सांप्रतम् ।

वस्तुत्वं पर्युदासेन तद322स्माभिर्न चेष्यते ॥

अथवा--
पारमार्थिकभेदत्वं न सिद्धं नः प्रमाणवत् ।

अपारमार्थिको323 भेदो न वस्तुत्वस्य साधकः ॥

यद्वानुवृत्ति324 व्यावृत्तिबुद्धिग्राह्य इतीरितम् ।

न घटादिवदेवास्मा325द्वस्तुत्वस्य प्रसाध्यता326

सांख्यनैयायिकादीनां परस्परविरोधतः327

भावास्तथा प्रतीयन्ते किं तेषामपि वस्तुता ॥

तत्रौपचारिकत्वं वा भ्रान्तिर्वापि328 यदृच्छया ।

न भवत्येव पूर्वोक्ते न भवेद् यदि --- ॥

प्रत्यक्षादेरनुत्पत्तिर्न प्रमाणान्तरात्परा ।

प्रत्यक्षान्तरतो वापि ततोऽस्यानुपलब्धिता ॥

स्वरूपपररूपाभ्यां वस्तुनः स्यात् परात्मकम् ।

स्वरूपेण हि सद्रूपं ततोऽन्या वा सदात्मता ॥

35
ततः स्वरूपमेवास्य परव्यावृत्तिमीक्षते ।

यदि स्वरूपाद्व्यावृत्तमसदात्मकता वृथा ॥

अथाव्यावृत्तमेवेदमसदात्मकता कुतः ? ।

यदि तस्योपयोगित्वं329 सर्वदा तत् प्रतीयताम् ॥

एकत्वे वस्तुनस्तस्योद्भूतानुद्भूतते330 कुतः ? ।

नानात्वे वस्तुनस्तस्य कस्मात्तदुभयात्मता331

जिघृक्षा यदि नाम स्या332च्चक्षुः कार्त्स्न्ये हि333तां विना ।

न केवलस्य ग्रहणे केनचिद् दृश्यते स्फुटम् ॥

तस्योपकारकत्वेन वर्त्तते यस्तदेतरः ।

उभयोरपि संवित्त्वा334दुभयानु335गमः कथम् ॥

उभाभ्यामपि संवित्तिर्न भवेदुभ336भावना ।

प्रत्यक्षाद्यवतारस्तु भावांशो337 गृह्यते यदा ।

व्यापारस्तस्य भावांशो न भेदेन कथं भवेत् ॥

तद्योगादिन्द्रियेणैव नास्तीत्युत्पाद्यते मतिः ।

भावांशपर्युदासेऽपि ना338न्यत्राभाव उच्यते ॥

तदन्यत्वं कथं तस्य तद्विलक्षणभावतः ।

तद्वै339लक्षण्यमस्यापि देश340कालादिभावतः ॥

देशभेदादिना भेदो यद्यभावो वृथा भवेत् ।

देशादेरप्यभावेन विना भेदः कथं ततः ॥

अभावस्यापि भिन्नत्वे सैव स्यादनवस्थितिः ।

341अभावो यदि सर्वात्मनां भेद एव प्रसज्यते ॥

तद्रूपानुप्रवेशेन विना नैव परिस्फुटः ।

अनुप्रवेशो भावे हि भेदादन्या गतिः कुतः ॥

कथञ्चित्तस्य भावस्यानुप्रवेशो गतो यदि ।

अनुप्रवेशे342 तद्रूपे प्रलये च न भेदिता

36
स्वेन रूपेण देशश्चेत् प्रवेशः स कथं मतः ।

पररूपेण देशश्चेन्न343 तदान्येन वेशिता वेदिता

पररूपे सति कथं स्वभावो नतु भिद्यते ।

सोऽप्येकान्तं344 न भिन्नश्चेत् तदेवावर्त्तते पुनः ॥

धर्मयोर्भेद इष्टश्चेद्345 धर्मभेदे346 व्यवस्थिते ।

धर्मधर्मिव्यवस्थेयं भेदेऽ347सति कथं भवेत् ॥

समवायव्यवस्थायां पदार्थान्तरमेव हि ॥

गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनस् म्

मानसं नास्तिताज्ञानं जायतेऽक्षा348नपेक्षया ॥

अन्योन्यसंश्रयः प्रोक्तो जायतेऽ349क्षानपेक्षया

इत्यनिष्टमतो व्यक्तफलमेतदवस्थितम् ॥

वस्तुनः कारणत्वं हि नास्तीत्यत्रवि निश्चये ।

न लिङ्गत्वविनिर्मुक्तस्वभावात् कारण350स्थितिः ॥

केवलं प्रतिभासे हि तदभावे अन्य तदापि वित् ।

एतावन्मात्र निष्ठोऽयमभावस्य विनिश्चयः ॥

तथैव हि समस्तोऽयं व्यवहारः प्रसिद्धिभाक् ।

प्रमाणानामनुत्पत्तेस्तथा भावाभावधर्मता ॥ ?

केवलस्य प्रदेशस्य ग्रहणं साध्यसाधने ।

अभावोऽनुपलब्धिश्च केवलं प्रतिभासते ॥

अत्राभावेऽस्ति तेनास्याः संबन्धे धर्मधर्मिता ।

यो न 351संनिहितस्तत्र तस्य धर्मस्य नेष्यते ॥

नैव तस्य प्रमेयत्वं तदभावस्य साधनात् ।

अभावेन हि सम्बन्धस्तस्य तादात्म्यलक्षणः ॥

अतस्तत्रतु तादात्म्याद्352 व्यवहारस्य साध्यता ।

संयोग353समवायादिसंबन्धः केन नेष्यते ॥

37
नागृहीतेऽस्ति धर्मत्वं गृहीतेऽ354थाप्यनर्थकम् ।

355अभावशब्दवाच्यत्वात् प्र356त्यक्षाद्भिद्यते कथम् ॥

प्रमाण नामभावोहि प्रमाणेनासहस्थितेः ।

अभावो हि प्रमाणेन स्वानुरूपेण विद्यते ॥

प्रमेयत्वादभावो हि357 स्याद् भावात्म358कात् पृथक् ।

व्यवहारो भेदतः सिद्धसाधनं परमार्थतः ॥ ?

असिद्धिर्नहि तत्त्वेन भावाभावस्य भिन्नता ॥

इत्यद्भुता359ऽभावनिराक्रियेयं

प्रतीति संस्पर्शितया प्रबन्धात् ।

परीत्य360 फल्गु स्फुरितं परेषां

सदर्थनीतेरयमेवसारः--॥

  1. Ms. अभावोऽपि ।

  2. Ms. सन्निकृष्स्यट ।

  3. Ms. तत्र भाव प्रमाणात् ।

  4. Ms. घटोपटः ।

  5. Ms. शशशृङ्गं ।

  6. Ms. वैः । वायौ रूपेण तौ सह इति श्लोकवार्त्तिकपाठः ।

  7. Ms. न चावस्तुन एतेस्युरिति श्लोकवार्त्तिकपाठः ।

  8. Ms. कारणादिनः कारणादिना इति च श्लोकवार्त्तिके पाठः ।

  9. Ms. यदस्त्वयम् ।

  10. Ms. कारिकं ।

  11. Ms. …स्वरूपाभ्यां ।

  12. Ms. वर्त्तन्तेद्वस्तदेतरः । वर्ततेंशस्तदेतरः इति श्लोकवार्त्तिके पाठः ।

  13. Ms. संवित्तात् ।

  14. Ms. रभुत्पत्तेरभायांशो जिघृक्षते ।

  15. Ms. नह्यन्तत भेदोऽस्ति ।

  16. Ms. धर्मभेदेऽपि ।

  17. Ms. स्थितेः ।

  18. Ms. नास्त्यत्वेद ।

  19. Ms. अक्षा ।

  20. Ms. योयद्भावः ।

  21. Ms. पलत्वेन बलत्वेना ।

  22. Ms. दृष्टि ।

  23. Ms. भवेतान्तद्व ।

  24. Ms. धर्मत्व ।

  25. Ms. यत्र भावोऽस्ति तेनास्य ।

  26. Ms. सन्निहित ।

  27. Ms. अभावेन तु ।

  28. Ms. ज्ञान मेयेन ।

  29. Ms. समता यादि° संबधौ धे ?

  30. Ms. नाभावस्य प्रमाणत्वं तत्प्रमेयाद्यभावतः--इत्यपि पाठः सम्भवति ।

  31. Ms. भावस्तस्माद्भा° ।

  32. Ms. पृथगिति ।

  33. Ms. यथा भावो ।

  34. Ms. एकोपलम्भानुभावा ।

  35. Ms. सुपरि ।

  36. Ms. प्रमेयो भावनिश्चयः ।

  37. Ms. विविक्तास्यो° ।

  38. Ms. च्चेत ज्ञानभावस्य ।

  39. Ms. निषिद्विहि ।

  40. Ms. नह्यन्यान्युपलभ्येषु ।

  41. Ms. नास्ति नानुपलम्भतः ।

  42. Ms. मानसम्भावं ।

  43. Ms. प्रामाण्यभावः ।

  44. Ms. प्रमेयाभावनितः ।

  45. Ms. अन्योपलम्भावपि किमभावः प्रसिध्यति ।

  46. Ms. चेत् अर्थेनापि ।

  47. Ms. लक्षणादेतत् ।

  48. Ms. काचित् रूपादि ।

  49. Ms. स्यात् अनायासेन ।

  50. Ms. दङ्गतः ।

  51. Ms. व्यवहारमात्रमेवैतत् ।

  52. Ms. ग्राहिण्यो° ।

  53. Ms. भेदाभेदादोयधियोगात् ।

  54. Ms. मिमुच्यते ।

  55. Ms. चेत् अभावो ।

  56. Ms. त्ततस्य ।

  57. Ms. दन्योन्याऽत्रार्थ ।

  58. Ms. पुर्युदासो° ।

  59. Ms. सदृशः तदन्योऽर्थः ।

  60. Ms. °सङ्करः ।

  61. Ms. सङ्कर ।

  62. Ms. °प्रतिषेधोऽपि ।

  63. Ms. नै वायं ।

  64. Ms. विवा ।

  65. Ms. कथन्नाम ।

  66. Ms. दध्यसंसृष्टज्य ।

  67. Ms. असृष्टं ।

  68. Ms. नाव्यक्षतः ।

  69. Ms. संवृसम्बत्यनुमादृते ।

  70. Ms. वृद्धौ ।

  71. Ms. साधारणतार्थस्य यदिनाव्यक्ष ।

  72. Ms. नाव्यक्ष° ।

  73. Ms. अव्यक्षा° ।

  74. Ms. तस्यैवा अभावः ।

  75. Ms. मव्यक्षा ।

  76. Ms. ऽज्ञानपेक्षया ।

  77. Ms. समाशृता ।

  78. Ms. ग्रहण सदा ।

  79. Ms. ततश्चक्रक ।

  80. Ms. प्रसज्य प्रतिषेधोऽयं ।

  81. Ms. श्चेत् ।

  82. Ms. 2स्तदन्यत्र ।

  83. Ms. तद्वयोरपि हि दृश्यत्वे ।

  84. Ms. अव्यावृत्तेषु ।

  85. Ms. नर्दृष्टो ।

  86. Ms. अन्तरात्मनयोगश्चेत् ।

  87. Ms. अनरालं ।

  88. Ms. उत्पत्ते ।

  89. Ms. श्चेत् वस्तु ।

  90. Ms. दस्येष्यते ।

  91. Ms. तस्मास्माभि ।

  92. Ms. अपारमार्थिकभेदो ।

  93. Ms. व्यावृत्त ।

  94. Ms. वास्मात् वस्तु त्वस्य ।

  95. Ms. वस्तु त्वस्य प्रसाध्यताम् ।

  96. Ms. विरोधिनो ।

  97. Ms. °चारिकत्वंभ्रान्तिपूर्वापि यदृच्छ्या

  98. Ms. योगात्पकथं ।

  99. Ms. °स्तस्योद्भूतानुताभूते ।

  100. Ms. कस्मात्तस्योभयात्मता ।

  101. Ms. स्यात् चक्षुः° ।

  102. Ms. सितां ।

  103. Ms. संवित्ता° ।

  104. Ms. °दुभयोरनुगमः

  105. Ms. °भवेदुभपभावना ।

  106. Ms. भावांशो ।

  107. Ms. न तदन्यत्राभाव ।

  108. Ms. तद्वयै° ।

  109. Ms. दशकालादि° ।

  110. छन्दोभङ्गदोषः ।

  111. Ms. 13 अनुवेशे° ।

  112. Ms. देशश्चेत् न ।

  113. Ms. प्येकान्तन्न° ।

  114. Ms. इष्टश्चेत् ।

  115. Ms. धर्मभेदो ।

  116. Ms. भेदे सति ।

  117. Ms. ऽपेक्षानपेक्षया ।

  118. Ms. ऽज्ञा ।

  119. Ms. कारणं ।

  120. Ms. सन्निहित ।

  121. Ms. दातात्म्यात् ।

  122. Ms. संयोगः ।

  123. Ms. गृहीतेष्वप्यनर्थकम् ।

  124. Ms. स भाव° ।

  125. Ms. पक्षादिभिद्यते ।

  126. Ms. नास्याद् ।

  127. Ms. भावात्मता ।

  128. Ms. °द्भुता भाव ।

  129. Ms. विपरीत्य ।