10
अपौरुषेयमप्येवं कथं नाम प्रपञ्चवत् ।
ततः कृतक एवायमिति वेदः प्रतीयताम् ॥
पुरुषातिशयासिद्धिर्न तत्रापि प्रमाणता ॥ छ ॥
विषयोऽन्यादृशस्तत्र य उक्तो लिङ्गशब्दयोः ।
तेनाप्रमाणता शब्दे सर्वथैव प्रसिध्यति ॥
विकल्पविषयत्वं हि शब्दस्येति प्रसाधितम् ।
धर्मी धर्मविशिष्टस्तु साध्य उक्तोऽनुमानतः ॥
शब्दस्यापक्षधर्मत्वे न बाह्येऽर्थेस्ति हेतुता ।
नहि धर्मिण्यसिद्धत्वे धूमादर्थः प्रसिध्यति ॥
स्वरूप एव प्रत्यक्षमनुमानत्ववर्जितम् ।
अर्थवत्त्वेन शब्दस्य पक्षत्वपरिकल्पने ।