518
दित्वाल्लक्षणशास्त्रं चेति प्रमाणलक्षणशास्त्रं भगवत्प्रवचनं न तीर्थिकानामिव शास्त्रं
विसम्वादकमलक्षणञ्च वस्तुस्वरूपस्येति भावः । तथा हि भगवतां वचनं प्रमाणोप
पन्नमनित्यादिवस्तुरूपसम्बेद्यकं चाथवा प्रमाणं प्रत्यक्षानुमाने तयोर्लक्षणं भगवतैव
3b निर्दिष्टं । यथोक्तम भि ध र्मे चक्षुर्विज्ञानसमङ्गी पुद्गलो नीलं जानाति । नो
तु नील मित्यनेन निर्विकल्पकं प्रत्यक्षमिन्द्रियज्ञानमुक्तं । मनोविज्ञान
समङ्गी तु नीलं जानाति नीलमिति त्विति । अत्राद्येन मानसं निर्विकल्पकं
प्रत्यक्षमुक्तं द्वितीयेन तु विकल्पकं मन उक्तं । सम्वित्तिस्तु जानातिवचनेनोक्ता ।
न हि स्वयमप्रकाशमन्यं प्रकाशयति बाह्यप्रकाशवत् विशेषवचनमप्यस्त्यनुभवरूपं
ज्ञानमितिवचनात् । योगिज्ञानमपि श्रुतचिन्ताभावनाक्रमेण तत्रैवोक्तं ।
कार्यानुमानस्य तु लक्षणं । ।
स्वभावहेतोर्लक्षणं ।
अत्र हि तद्भावमात्रानुबन्धित्वं साध्यधर्मस्योक्तमिति स्वभावोयमुक्त
एतत्प्रमाणं येन शास्यते भगवद्वचनेन तत्प्रमाणलक्षणशासकं वचनं शास्त्रं। तद्
भगवदुक्तं प्रमाणलक्षणमाचार्य दि ग्ना गे न व्याख्यातं प्र मा ण स मु च्च ये नेत्याचा
र्यीयप्रमाणलक्षणशास्त्रस्य व्याख्यातस्यानिबन्धनमनुमानं अत्र वार्तिके प्रथम
व्यवस्थापितमुक्तप्रयोजनार्थमित्यर्थः । अवसरप्राप्तमिति सर्वत्रैव सन्तो नमस्कार
पूर्वकं प्रवर्त्तन्त इति सदाचारानुवृत्यर्थं विघ्नोपशमनार्थञ्चाचार्येण प्र मा ण स मु
च्च ये भगवतो नमस्कारश्लोक उक्तः । नमस्कारेण हि पुण्योपचयो भवति । स च
पापं निवर्त्तयति विरोधात् । पापञ्च निवर्त्तमानं स्वकार्यमपि विघ्नं निवर्त्तयतीति
विघ्नोपशमनो भवति । भगवत्प्रामाण्यनिबन्धनश्चानुमानमनन्तरमुक्तमित्यवसर
प्राप्ता व्याख्या भवति नमस्कारश्लोकस्य ।
प्रमाणसमुच्चये १।१ इत्यस्य ॥
4a तत्र यथा प्रत्यक्षादिप्रमाणं पुरुषार्थोपयोगिनोनधिगतस्यार्थस्य प्रकाशकं
सम्वादकञ्च तथा भगवानपि यत्रोत्कृष्टः पुरुषार्थः प्रतिबद्धश्चतुरार्यंसत्य
लक्षणे तत्त्वे तद्विषयं हि ज्ञानमासाद्य मोक्षार्थिनां मोक्षाधिगमात् । तस्य