2a २।१ अधुना शेष प्र मा ण स मु च्‍च य प्रथमद्वितीयपरिच्छेदव्याचिख्या
सुस्तदादिनमस्कारश्‍लोकं च व्याख्यातुं शास्‍त्रकारो द्वितीयपरिच्छेदं प्रस्तौति ।
अनन्तरञ्‍चागमचिन्तायाम ३।२१२ पौरुषेयमागममपाकृत्य यत्प्रतिज्ञातं सर्वस्य
दृष्‍टादृष्‍टप्रकर्षार्थस्य स्वर्गापवर्गादेः परलोकस्य च देशकः पुरुषातिशय एवेति स
इदानीं प्रमाणभूतः साध्यते नेश्‍वरादिरिति कथ्यते प्रवचने चार्यसत्यचतुष्‍टयं दुःख
सत्यपूर्वकमुक्‍तं निरूपणक्रमेण योगी हि सांसारिकदुःखार्त्तः प्रथमं दुःखसत्यं
निरूप्य हेयोपादेयं सोपायं पर्येषत इति कृत्वा शास्‍त्रकारस्तूत्पत्तिक्रममाश्रित्य यथा
संसारः प्रवर्त्तते निवर्तते च तथा प्रथमं समुदयसत्यं तद्विमतिनिराकरणतः
कथयंस्तदनुक्रमेण शेषसत्यत्रयमशेषविमतिनिराकरणतः कथयतीति द्वितीयपरि
च्छेदार्थः । सर्वत्र च प्रेक्षावतां सम्बन्धं विना वाञ्छाप्रवृत्तिरिति पूर्वापरपरि
च्छेदसंघटानार्थं सम्बन्धोऽवश्यवाच्यः स चानन्तर्यलक्षणोऽनन्तराणामपि
पूर्वैर्विद्यमानोपकारकत्वादानन्तर्यञ्‍च द्विधा ग्रन्थतोऽर्थतश्‍च शास्‍त्रादेर्वागर्थ
रूपत्वात्तत्रानन्तरपरिच्छेदसम्बन्धोयं द्वितीयपरिच्छेद इति