अभावः


१।८५ अभावः । नैवाभावः कश्‍चित्सर्वेषां कथञ्‍चिद् भावादिति चेत् । a
यथा तेन सन्तं सप्रकारोऽभावः । शशविषाणयोश्‍चायं भावात् शशविषाणाभाव
वादिनमुपहसन्‍नात्मानमेवोपहसति । शशावयवभूतं विषाणन्‍नास्तीत्यभिघातनिकः
प्रस्तावः । शशोप्‍यस्ति विषाणञ्‍चेत्युत्तरस्य । न ह्ययं विषाणमात्रमपह्नुते ।
यतस्तेन प्रतिरुद्ध‍्येत किन्तु शशसम्बन्धि । यद्येवं सम्बन्धो नास्तीति वक्‍तव्यं न
विषाणम् । किम्वै सम्बन्धमात्रं विशिष्‍यते । विषाणिनामपि विषाणेषु द्रव्यस्वभावः ।
स्वभावोपि प्रतिकार्यं कारणभेदात् तत्कोयं सम्बन्धाभावो वाच्य इत्युपालम्भः ।
अस्ति विषाणिनां विषाणस्वभावभेदो न तद्वत् किञ्‍चित् शशस्य भिन्‍न
स्वभावं विषाणमिति चेत् । वयमप्येतदेव ब्रूमः । यो वा सम्बन्धो नास्तीती
ष्यते स एवाभावः । सम्बन्धी विद्यते न सम्बन्ध इति चेत् निपुणा वाचो युक्‍तिः ।
अङ्गीकृतसम्बन्धं द्रव्यमपि नेति चेत् । प्रियमनुष्‍ठितं यदीदमेव प्रथममभिधीयते
526 न परिक्लेशितो देवानांप्रियः स्यादिति । विरुद्धाव्यभिचार्य्यपि संशयहेतुरुक्‍तः
स प्रहनोक्‍तः (?) । अनुमानविषये तस्याभावात् । न हि संभवोस्ति कार्य
त्वाभावयोरुक्‍तलक्षणयोरनुपलम्भस्य वा विरुद्धाव्यभिचारितायां । न चान्यो
व्यभिचारी । तस्मादव (शि) ष्‍टबलप्रवृत्तमागमाश्रयमनुमानमाश्रित्य तदर्थविचारेषु
विरुद्धाव्यभिचारी साधनदोष उक्‍तः । शास्‍त्रकाराणामर्थेषु भ्रान्त्या विपरीत
स्वभावोपसंहारसम्भवात् । न हि अस्ति सम्भवो यथावस्थितवस्तुस्थितिस्वात्म
कार्यानुपलम्भेषु । तत्रोदाहरणं सर्वगतं सामान्यं सर्वदेशावस्थितेः ॥...