२ अनुपलब्धिचिन्ता

(१) दृश्यानुपलब्धिफलम्

इदानीं तृतीयहेतोः प्रतिषेधफलत्वमाह ।

अप्रवृत्तिः प्रमाणानां1286;
285

प्रमाणनिवृत्तिरूपाऽनुपलब्धिरसति सद्व्यवहारातिक्रान्तत्वादसदविशिष्टे देश
कालस्वभावविप्रकृष्टे सु-मे-र्व्वा-दौ (।) सज्ज्ञान1287शब्दव्यवहाराणां प्रवृत्तिप्रतिषेधो
ऽप्रवृ
त्तिस्तत्फला (।) एतच्चाप्रवृत्तिफलत्वं दृश्यादृश्यानुपलब्ध्योः साधारणंज्ञान
पूर्वकत्वात्1288 (।) सत् ज्ञानशब्दव्यवहारस्य ज्ञानाभावे तदभावस्य न्यायप्राप्तत्वात् ।

दृश्यानुपलब्धेः फलान्तरमाह । काचित् प्रमाणनिवृत्तिरसत्‏ज्ञानमभावज्ञानं
तत्फला । कथमित्याह ।

56b
हेतुभेदव्यपेक्षया ॥ २ ॥

हेतुरनुपलम्भस्तस्य भेदो विशेषणमुपलब्धिलक्षणप्राप्तविषयत्वं तस्य
व्यपेक्षया कांक्षया उपलब्धिलक्षणप्रा
प्तानुपलब्धिरित्यर्थः ॥

ननु1289 यद्यनुपलब्ध्याऽभावः साध्यते तदोपलब्ध्यभावोपि तत एवेत्यन1290वस्था
नादभावाप्रतिपत्तिः स्यात् । दृष्टान्तश्च न स्यादन्यस्याभावसाधनस्याभावादनुप
लब्धेश्चान1291वस्थाप्राप्तत्वात् । अथ पदार्थान्तरोपलब्धिरेवानुपलब्धिस्तयाऽध्यक्ष
सिद्ध्याऽभावः साध्यते तस्मान्न दोषः । यद्येवमर्थान्तरादपि किन्नाभावः साध्यते (।)
तदपि ह्यनुप
लब्धिरूपं प्रत्यक्षसिद्धञ्च । को वान्योपलम्भाभावेन सम्बन्धः ।

उच्यते । एकज्ञानसंसर्ग्गि वस्त्वन्तरं तदुपलब्धिश्चानुपलब्धिर्व्विवक्षितोप
लब्धेरन्यत्वादभक्षास्पर्शनीयवत् । स एवाभावः तदतिरिक्तस्य विग्रहवतोऽभावस्या
भावात् । तस्मात्तादात्म्यमभावानुपलम्भयोः सम्बन्धः ।

एवं तर्ह्यनुपलब्धिसिद्धिरेवाभावसिद्धिः किं साध्यते ॥

286

सत्यं (।) नाभावः
साध्यः सिद्धत्वादस्य । किन्तर्हि (।) विषयोपदर्शनेन
विषयी व्यवहारः साध्यते । यथा गोव्यवहारविषयोऽयं सास्नादिसमुदाया1292त्म
कत्वात् । (२)

  1. प्रत्यक्षपृष्ठभाविना निश्चयेनाधूमव्यावृत्तिरूपावधारणेन धूमादिस्वलक्षणं भासमानं तार्ण्णादिविशेषानवधारणेन चानेकस्वलक्षणरूपं सामान्यलक्षणं लिङ्गं प्रत्यक्षविषयो व्यवस्थाप्येत लिङ्गि च ।

    व्यक्तिभेदेन मानबहुत्वात् आगमापेक्षया वा आगमस्यापि निवृत्तिर्नाभावं साधयतीति वक्ष्यते ।

  2. उपलब्धिः कर्मधर्मश्चेद्वस्तुयोग्यता । कर्तृधर्मश्चेज्ज्ञानं । उपलि(? लब्धि): सत्वमेव । असताञ्चानुपलब्धिरसत्वं । मुख्यं सत्वमनेन दृश्यानुपलब्ध्याऽक्षेपः । अदृश्यानुपलब्धिः । दृश्यानुपलब्धौ वस्तुवशान्निवृत्तं सत्वं स्वनिमित्तं ज्ञानादि निवर्त्तयति । अदृश्येप्यभीष्टकार्याकरणादसत्कल्पे प्रतिपत्त्यध्यवसायान्निवृत्तं सत्वं स्वनिबंधनं निवर्तयति (।)

  3. उपलब्धिः कारणं सद्व्यवहारस्य । तदभावे कार्याभाव उक्तः ।

  4. अभावप्रमाणस्वीकारे यद् दूषणं तदिहातिदिश्य परिह(र)ति ।

  5. यस्य विषयस्याभावः साध्यते तदुपलब्धेरप्यभावोन्ययानुपलब्ध्या तस्या अप्यन्ययेति ।

  6. येनैव पक्षधर्मेण साध्यधर्मिण्यभावः साध्यते । तेनैव दृष्टान्तधर्मिण्यपि । तत्राप्यपर(ो) दृष्टान्त इति ।

  7. सिद्धमेतदस्यैव गोत्वात् ।