कारकाज्ञान1775न्तु कार्येऽभावस्यैव साधकं (।) न ह्यसति कारणे कार्यसंभवः1776 ॥
तथार्थस्य व्यापकतया निश्चितस्य स्वभावस्यानुपलम्भश्च स्वभावे व्याप्ये
लिङ्गिन्यसत्तया साध्ये साधनं
तदा च कारणव्यापकानुपलब्धी गमिके यदि केन चिद्धेतुनोपलब्धिलक्षणप्राप्तानुपलम्भेनान्येन वा तयोः कारणव्यापकयोरभावः प्रती
यते (।) न तूपलम्भाभावमात्रेण सन्दिग्धासिद्धत्वात् ।
ख. स्वभावानुपलब्धिः
स्वभावानुपलम्भमाह ।
दृश्यस्य वस्तुनो दर्शनाभावस्य यत् कारणं व्यवधानेन्द्रियवैकल्यादि तस्यासम्भवे सति भावस्यानुपलब्धस्य भाव (=सत्ता)ाभावः स्वभा
वानुपलब्धेः प्रतीयते ॥
ग. अनुपलब्धिरेवाभावः
विरुद्धस्य1777 निवर्त्तकस्य वह्नयादेर्भावस्य भावे तस्य श(?स)लिलादेर्निवर्त्त्यस्य
भावबाधनात् । तद्विरुद्धोपलब्धौ सत्यामसत्ता1778या विनिश्चयः स्यात् ।
नन्वनुपलब्धेरभावसाधने को दृष्टान्तः । व्योमकुसुमादिरिति चेत् । अत्रापि
यद्यनुपलब्धेरभावसिद्धिस्तदा दृष्टान्तान्तरापेक्षायामनवस्थाप्रसङ्गः । तदनपेक्षायां
तदनुपलब्धिरभावाख्यं प्रमाणम
स्तु ।
असम्बद्धमेतत् । न ह्यभावोऽनुपलब्ध्या साध्यते । अनुपलब्धि1779रेव ह्यभावः
स च सिद्ध एव । तथापि तु मूढः1780 तमव्यवहरन् निमित्तो1781पदर्शनेन व्यवहार्यते1782 ।
तथा च भावो1783ऽभावस्य दष्टान्तः1784 । तयोः स्वनैमित्तिक1785प्रवर्त्तनस्य सिद्धत्वात् ।
ननु यदिदं1786न सन्ति प्रधानादयोऽनुपलब्धेरिति तत्र कथमसद्वयवहारविधिः
सद्व्यवहारप्रतिषेधो वा । प्रधानादिशब्दवाच्यस्य
प्रतिषेधे त1787च्छब्दाप्रयोगात्1788।
अत्राह ।
अनादिविकल्पाभ्यासवासनाया उद्भूतविकल्पे परिनिष्ठितः प्रतिभासमानः
शब्दार्थो धर्मो त्रिविधः । कथ1789मित्याह (।) भावाभावोभयाश्रयः । सदसदुभय
361 विकल्पवासनाप्रभवत्वात् । तदध्यवसायेन तद्विषयत्वात् । तत्र भावोपादानो विकल्पः पटादिरभावोपादानः शशविशा (?षा) णादिः । उभयोपादानः प्रधाने
श्वरादिः ।
तस्मि
न् शब्दार्थे प्रधानादौ भावानुपादाने भावभूतप्रधानाश्रये साध्येऽस्य71b
प्रधाना1790देस्तथा (बाह्य) भावाश्रयत्वेनानुपलम्भनं हेतु1791र्व्यवहारसाधनः । न तु
तस्य1792 शब्दार्थस्यैवाभावः प्रधानादिशब्दस्य तत्प्रतिपादकस्य प्रयोगतः1793 ॥
यदि तु वस्त्वेव शब्दविषयस्तदा (।)
परमार्थै1794कतानत्वे परमार्थैकपर(वृत्ति)त्वे शब्दानामर्थेषु दर्शनान्तरभेदिषु प्रतिदर्शनं भिन्नाभ्युप1795ग
मेन नित्यत्वानित्यत्वत्रिगुणीमयत्वादिकल्पितभेदेषु
अनिबन्धना परमार्थनिबन्धनरहिता प्रवृत्तिर्न स्यात् । न हि परस्परविरुद्धा बहवो
धर्मा एकत्र सन्ति ।
अतीताजातयोर्व्वप्यसतोर्न स्याच्छब्दवृत्तिः । न च कस्याश्चिद् वाचोऽनृ
तार्थता स्यात् । अर्थमन्तरेण शब्दाभावात् । यस्मादेते दोषा वस्तुविषयत्वे वाच
इति तस्मादेषा बौद्धा1796र्थविषया कल्पि1797तार्थगोचरा मता ।
यश्च शब्दार्थः
तस्य भावानुपादानत्वं साध्यते न तु स एव निषिध्यतेऽन्यथा (।)
शब्दार्थस्यापह्नवे साध्ये धर्माधार1798स्य धर्मिणो1799
निराकृतेः समुदायः साध्यो
न स्यात् । धर्मिधर्मसमुदायश्चानुमेयः । धर्म एव केवलः साध्यते इति चेत् सिद्धो1800
धर्मश्चाभावादिः केवलः (।) किमर्थं साधनीयः प्रधानादिविकल्पस्य भावानुपा
दानत्वं तु न सिद्धं तदेव साध्यं
युक्तं ।
किञ्च1801 (।)
सदसत्पक्षभेदेन वस्त्वेव व्यवहारिभिः शब्दार्थानपवादिभिः चिन्त्यते नावस्तु ।
हि यस्माद् अत्र वस्तुनि फलस्यार्थक्रियाया उदयः प्रतिबद्धः ।
ततश्च (।)
अर्थक्रियायामसमर्थस्य शब्दार्थादेर्व्विचारैः सदसत्पक्षचिन्ताभिस्तदर्थिनामर्थ
क्रियार्थिनां किं न किञ्चित् प्रयोजनं1802 (।) षण्ढस्य नपुन्सकस्य रूपे वैरूप्ये वा
कामिन्या वृषस्यन्त्या
योषितः किं परीक्षया ।1803
घ. कल्पितस्यानुपलब्धिर्धर्मः
यत् पुनराचार्येणोक्तं कल्पितस्यानुपलब्धिर्द्धर्म्म इति तस्य कोर्थः ।1804
कल्पनाज्ञानस्य विषयत्वेन कल्पित इष्टः प्रधानादिशब्दार्थः । अस्य1805 कल्पितस्य
वस्त्वा1806श्रयाऽसिद्धिर्व्वस्त्वाधिष्ठानत्वानुपलब्धिर्द्धर्मो न्यायवादिनाचार्येणोक्ता ।
-
कारणानुपलम्भः साध्येऽनुपलब्धिर्या दृश्योपि ।
↩ -
यदि कथञ्चित् कारणाभावः सिध्येत् तदा कार्याभावः साध्यः यथा नात्र
↩
धूमोनग्नेः । -
यदभावः साध्यस्तद्विरुद्धस्यानयोरुपादानयोरन्योन्यवैगुण्यस्याश्रयत्वेनारम्भ
↩
विरोधात् । -
प्रतिषेध्यस्य ।
↩ -
उपलब्धिलक्षणप्राप्तस्य ।
↩ -
अभावतत्स्वभावानुपलब्धावभावव्यवहार एव साध्यते ।
↩ -
अनुपलम्भेन ।
↩ -
व्यवहारं ।
↩ -
निरुपाख्योपि ।
↩ -
यथा दृश्यः सन् दृश्यते तथा दृश्योऽसन्ननुपलब्धेः ।
↩ -
उपलब्ध्यनुपलब्ध्योर्भावाभावव्यवहारप्रवर्त्तनस्य । यस्य यत्र निमित्तं सक
↩
लमप्रतिबद्धमस्ति तत्र तेन भवितव्यं यथाऽङ्कुरादि । अस्ति चोपलब्धिलक्षणप्राप्त
स्यानुपलब्धावसद्व्यवहारनिमित्तमिति स्वभावहेतुः अनुपलब्धिः । -
(दिग्) नागादिनोक्तं ।
↩ -
वाच्यम्विना वाचकाप्रयोगात् प्रधानं ।
↩ -
प्रधानशब्दाप्रयोगे प्रतिषेधोपि प्रतिषेध्याकीर्त्तनान्निर्व्विषयस्याप्रयोगाद
↩
युक्त इति चोदकाशयः । -
कथं भावाश्रयोर्थजन्यत्वेनाविकल्पत्वप्रसङ्गात् कथमभावाश्रयस्तस्याकार
↩
णत्वात् । उभयेऽहेतुकत्वात् त्यक्तः । -
बुद्धिवर्त्तिनो धर्मिणः ।
↩ -
प्रधानादिविकल्पप्रतिभासस्य बाह्योपादानत्वानुपलम्भोस्तीति नापक्षधर्मः ।
↩ -
विकल्पस्थस्य ॥
↩ -
यदि स्वलक्षणमभिधेयं स्यात् तदा तत्प्रतिषेधेऽनर्थकस्य शब्दस्याप्रयोगः
↩
स्यात् न चैतत् । -
स्वलक्ष (त्वे)
↩ -
सिद्धान्त (त्वे) ।
↩ -
वाक् ।
↩ -
विकल्पभासी ।
↩ -
नास्तित्वं साध्यो धर्मः सिद्धान्ती ।
↩ -
प्रधानादिशब्दार्थस्य ।
↩ -
नास्तित्वमात्रस्य क्वचित् सिद्धत्वात् ।
↩ -
प्रतिज्ञा ।
↩ -
दृष्टान्तमाह ।
↩ -
उ द्यो त क रा द्युक्तदोषनिरासाय पृच्छति नागेन (? दिग्नागः ) ।
↩ -
उत्तरमाह ।
↩ -
प्रधानादिशब्दार्थस्य ।
↩ -
वस्तुनो बाह्यस्य प्रधानस्याश्रयणं तेनासिद्धिरनुपलब्धिर्द्धर्म उक्तो लिङ्गभूतो
↩
भावानुपादानत्वे साध्ये प्रमाणेन चेत् सत्त्वं प्रधानस्य । नानुपलब्धिः धर्मः ।
असत्त्वेप्यसत्त्वादिति परोक्तमपास्तमनेन शब्दार्थस्यैव कल्पितत्वात् ।