५. अपौरुषेयत्वे

(१) वेदप्रामाण्यनिरासः

वेदप्रमाण्यं निराचिकीर्षन् परमतमुत्थापयति ।

गिराम्मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात् ।
अपौरुषेयं सत्यार्थमिति केचित् प्रचक्षते ॥ २२४ ॥

गिरां वाचां मिथ्यात्वं1831स्य हेतूनां दोषाणामज्ञानविसम्वादाभिप्रायादीनां वा
पुरुषस्याश्रयादाश्रयणत्वात् अपौरुषेयं वाक्यं मिथ्यात्वहेतोः पुरुषदोषस्याभावात्
सत्यार्थमिति केचित् जै मि नी याः प्रचक्षते ॥
(२२४)

  1. मृष (ा)र्थत्वस्य ये हेतवो दोषा रागादयस्तेषां वाचश्च पुरुष आश्रयस्तैः
    पुरुषस्य परिगृहीतत्वादप्रमाणत्वं (।) द्विधा शब्दार्थो निसर्गसिद्धो वेदादौ औपाधिकः
    पुरुषाधीनोन्यत्र । न मिथ्यात्वं वेदे पुरुषनिवृत्तेः । न संशयोऽप्रतिभासात् । नाज्ञानं
    वेदादर्थगतेः (।) पुरुषकारणाभावान्मिथ्यात्वकार्याभावसिद्धिः ।