किञ्च (।)

अर्थज्ञापनहेतुर्हि सङ्केतः पुरुषाश्रयः ।
गिरामपौरुषेयत्वेप्यतो मिथ्यात्वसम्भवः ॥ २२६ ॥

सङ्केतमन्तरेणापौरुषे1835यादपि वाक्यादर्थप्रतीतेरभावात् । अर्थज्ञापनहेतुरिह
सङ्केतः स्वीकर्तव्यः । स च पुरुषकृतत्वात् पुरुषाश्रयः । अतः संकेतस्य
73a पुरुषा
श्रयत्वात् गिरामपौरुषेयत्वेपि मिथ्यात्वस्य सम्भवः । संकेतवशेन वाचोऽर्थं ब्रुवते ।
स च दोषाश्रयेण पुरुषेण क्रियत इति तासां न विसंवादशङ्कानिरासः । पौरुषेय
वाक्यवदिति व्यर्थमपौरुषेयत्वकल्पनं । (२२६)

  1. वस्तुतः पुंनिवृत्त्या सत्त्यमिथ्यार्थत्वनिवृत्तेरानर्थक्यादनुत्पत्तिलक्षणमानर्थं
    क्यं सङ्केतकाभावात् स्वभावतोर्थबोधानुपपत्तिः ।