368
गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् ।
अपौरुषेयं मिथ्यार्थं किं नेत्यन्ये प्रचक्षते ॥ २२५ ॥

तानेव1832 प्रति गिरां सत्यत्वस्य हेतूनां1833 दयाधर्मपरत्वादीनां गुणानां पुरुषस्या
श्रयादपौरुषेयं वाक्यं सत्यता1834हेतोः पुरुषगुणस्याभावात् मिथ्यार्थं किं न भवतीत्यन्ये
सौ ग ताः प्रचक्षते ॥ (२२५)

  1. मी मां स कानेव शास्त्रकारः परमुखेनाह ।

  2. दयादीनां ।

  3. पुरुषनिवृत्त्या सत्त्वकारणनिवृत्तेः कार्यस्यापि सत्त्वस्य निवृत्तितः शब्दे
    सत्यत्वमिथ्यात्वयोः पुरुषायत्तत्वात् पुरुषनिवृत्तौ सत्त्यवन्मिथ्यात्वं च स्यात् ।