एवन्तर्हि नित्यः शब्दोऽसर्व्वत्वादिति । अत्रापि व्यावृत्तिभेदादे
व साध्य
साधनभावो भविष्यतीत्याह ।
अत्र प्रयोगे स शब्द एव साध्योऽश्लिष्टभेदधीरसंस्पृष्टान्यादृशबुद्धिः ।
द्वाभ्यामपि शब्दाभ्यामेकस्या व्यावृत्तेः प्रतिपादनात् व्यवहारेण व्यावृत्तिसमाश्र
येणोपनीतः प्रत्युपस्थापितः येन कारणेन साधनतां नीतः तेनासिद्धः प्रकाशितः ।
ननु संस्कृतशब्दोऽनित्यः संस्कृतत्वादिति प्रतिज्ञार्थैकदेशस्य यथा
हेतुत्वं तथा
नित्यः शब्दः शब्दत्वादित्यस्यापि स्यादित्याह ।
साध्यधर्मिमात्रनिष्ठत्वात् सर्व्वधर्मगोचरत्वाच्च भेदसामान्ययोर्द्धर्मभेदाद् व्यावृत्तिभेदात् । साध्य2347धर्मो हि साध्यधर्मिनिष्ठत्वेन सजातीयाद् विजाती
याच्च व्यावृत्तत्वाद् विशेषः । साधनधर्मस्तु विजातीयमात्रव्यावृत्तत्वेन सामान्यं ।
ततो भेदसामान्यभावेन भेदादङ्गाङ्गिता हेतुसाध्यता युक्ता । विशेषः सा
ध्यः
सामान्यं हेतुरिति कुतः प्रतिज्ञार्थैकदेशता । यथाऽनित्यः प्रयत्नोत्थो ध्वनिरिति प्रतिज्ञा प्रयत्नोत्थतयेति हेतुः । शब्दः पुनरभिन्न2348विषयो हेतुः साध्यश्चेति
प्रतिज्ञार्थैकदेशत्वं ॥
प्रयत्नानन्तरीयकत्वस्य धर्मिविशेषणत्वात् प्रतिज्ञार्थैकदेशत्वमस्त्येवेत्याह ।
पक्षाङ्गत्वे विशेषणत्वेपि नास्त्येव तावत् साधनस्य पक्षाङ्गत्वं विशेषसाध्य
त्वात् । भवतु वा तथापि नासिद्धस्य । तेन विशेषणेन भिन्ने विशेषिते धर्मिणि धर्म्म्यन्तरव्या2349वृत्ते प्रयत्नानन्तरीयकत्वस्याविरोधादबाधत्वात् धर्मिणं विशेषयदपि