482

पक्षधर्मस्य नवधा प्रभेदेन हेतुप्रकरणार्थस्य हेतुहेत्वाभासलक्षणात्मकस्य
सुखेन ग्रहणस्य सिद्धये तदर्थवाचकानां सूत्राणां संक्षेपतः संग्रह उच्यते ॥ सपक्षे
सन्नित्यादिना (।)

ख. सूत्रे निपातग्रहणफलम्

यदि पक्षस्य धर्मो हेतुस्तदा तद्विशेषणापेक्षस्य धर्मस्यान्यत्र धर्मिण्यननुवृत्ते
रसाधारणता स्या
त् । अथ पक्षेण न विशिष्यते तदा न पक्षधर्मो हेतुः स्यात् ।
असदेतत् । न ह्यन्ययोगव्यवच्छेदेनैव विशेषणमन्यथापि सम्भवादिति दर्शयितुमाह ।

अयोगं योगमपरैरत्यन्तायोगमेव च ।
व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥ १९० ॥

निपात एवकारो व्यतिरेचकः नियामकः क्वचिद् धर्मस्य विशेषणस्या
योगं व्यवच्छिनत्ति क्वचिदपरैर्व्विशेष्यादन्यैर्योगं व्यवच्छिनत्ति । क्वचिदत्यन्तायोगं व्यवच्छिनत्ति ॥

ननु निपातो न स्वयं वाचकः किन्तु द्योतकः । तदस्य कथ
मयमर्थप्रभेद
इत्याह ।

विशेषणविशेषाभ्यां क्रियया च सहोदितः ।

द्योतकत्वादेव निपातो विशेषणेन सहोदितोऽयोगस्य व्यवच्छेदकः । विशे
ष्येण
सहोक्तोन्ययोगस्य । क्रियया च सहोक्तोऽत्यन्तायोगस्येति विशेषणादि
पदवाच्य एवायोगव्यवच्छेदादिस्तत्सहोक्तनिपातद्योत्य इत्यर्थः ।

भवतु तावन्निपातप्रयोगे व्यवच्छेदविशेषस्य प्रतीतिः पक्ष2352 इत्यादौ तु
कथमित्याह ।

विवक्षातोऽप्रयोगेपि सर्वोऽर्थोयं प्रतीयते ॥ १९१ ॥
व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः ।
पार्थो धनुर्द्धरो नीलं सरोजमिति वा यथा ॥ १९२ ॥

अप्रयोगेपि निपात
स्य वक्तुर्व्विवक्षातः सर्व्वोंयमयोगव्यवच्छेदादिरर्थः
प्रतीयते । यतो व्यवच्छेदफलं वाक्य
मित्युक्तं प्राक् । वाक्यञ्चोपलक्षणं पदमपि
व्यवच्छेदफलं । न हि घटेनोदकमानयेति प्रतिपादमनवधारणेऽघटेनानयनप्रतिषेधः ।
पक्ष इत्यादौ तु कथमित्याह । अप्रयोगेपि निपातस्य वक्तुर्व्विवक्षातः सर्व्वोयम
योगव्यवच्छेदोऽनुदकानयनप्रतिषेधः
अनानयननिवृत्तिर्व्वा शक्योपदर्शना । अयोग

  1. ...पक्षधर्मः ।