510 105a हेतोर्व्विपक्षात् कारणव्यापकानुपलब्धिभ्यां व्यावृत्तेर्निश्चिते2408नै
साध्यार्थसाधने ऽधिकारात् । न हि विपक्षादनिश्चितव्यावृत्तिको हेतुर्गमकः । न हि कारण- व्यापकानुपलब्धिभ्यामन्यो व्यावृत्तिसाधनः कारणविरुद्धोपलम्भादिष्वपि कारणा- भावादभावः प्रतिपाद्यः । (२७७ )

तस्याः स्वयं प्रयोगेषु स्वरूपं वा प्रयुज्यते ।
अर्थबाधनरूपम्वा भावे भावादभावतः ॥ २७८ ॥

तस्या अनुपलब्धेः प्रयोगेषु स्वयं शब्दप्रतिपादितं वा स्वरूपं प्रयुज्यते । यथा स्वभावकारणव्यापकानुपलब्ध्यादिषु । निषेध्यस्यार्थस्य बाधनं विरुद्धं वा प्रयुज्यते यथा स्वभावकारणव्यापकविरुद्धोपलब्ध्यादिषु प्र
युज्यत इत्याह । अविकलकारणतया शीतस्य भावे सत्तायां सत्यां दहनस्य भावात् । अभावतो निवृत्तेः । यथा शीताभावसाधने सहानवस्थानविरुद्धो वह्नेः प्रयुज्यते नात्र शीतस्पर्शो वह्रेरिति । (२७८)

अन्योन्यभेदसिद्धेर्वा ध्रुवभावविनाशवत् ।
प्रमाणान्तरबाधाद् वा सापेक्षध्रुवभाववत् ॥ २७९ ॥

निषेध्यविधीयमानयोरन्योन्यस्याभावात्मतया भेदसिद्धेर्व्वाऽर्थबाधनरूपं प्रयुज्यते । ध्रुवभावविनाशवत् । नित्यत्वानित्यत्वयोरन्योन्याभावात्मकत्वेन भेदसिद्धौ परस्परपरिहारस्थितिलक्ष
णतया विरुद्धं विनाशित्वं नित्यत्वबाधने प्रयुज्यते । यथा नित्यः शब्दो विनाशित्वात् । स चायं परस्परपरिहारस्थितिविरुद्धः क्वचित् साक्षाद् वा प्रयुज्यते यथा नित्यत्वस्य विनाशित्वं । क्वचिद् धर्मान्तर- विरोधग्राहिणा प्रमाणान्तरेण परम्परया बाधनात् । अबाधितविरुद्धभावो वा प्रयुज्यते । सापेक्षध्रुवभावित्ववत् । यथा सापेक्षध्रुवभावयोः साक्षाद् विरो- धाभावेपि ध्रुवभा
वित्वस्य यद् व्यापकं तेन विरुद्धं सापेक्षत्वं व्याप्यव्यापक- योश्च वस्तुतस्तादात्म्यादयो यद्व्यापके विरुध्यते स तद्व्याप्येनापीति प्रमाणान्तर- बाधनादेवावधृतविरुद्धभावं सापेक्षत्वं ध्रुवभावित्वबाधने प्रयुज्यते (।) यथा न ध्रुवभावी कृतकस्य विनाशो हेत्वन्तरसापेक्षत्वादिति । (२७९)

कस्मात् पुनर्हेत्वन्तरसापेक्षो न ध्रुवभावीत्याह ।

  1. तृतीयेन रूपेण ।