स्यादेतत्प्रथममुभिमुखीभवन्नर्थः स्मृ802तेर्हेतुस्तत इन्द्रियज्ञानस्येति (।)
क्रमेणोभयहेतुरभिमतश्चेत् । यद्येवं पूर्व्वापरैकस्वभावसामर्थ्यस्य भावस्याभेदत- स्तज्जन्यं द्वयमपि प्रागेव स्यात् न क्रमतः ॥803 स्यादेतद्(।) भावानां क्षणिकत्वा
च्चान्यः स्मृतिप्रबोधकः क्षणोऽन्यश्चाक्ष
बुद्धेर्हेतुश्चेत् । तत्राद्येपि क्षणे वाचक
शब्दस्मृतिरनर्थिका (। १८८)
यस्माद् (।)
यथा समितस्य शब्दवाच्यतयाऽ804र्थस्य सिद्ध्यर्थं समयस्मृतिरिष्यते ।805 भेदो विशेषोऽसमितः संकेताविषयश्चाक्षधिया ग्राह्यः । तत्र स्मृतिः समयस्य किमर्थिका निष्प्रयोजना (। १८९)
सामान्ये कालान्तरानुवर्त्तिनि संकेतः स एव स्मर्यत इति चेदाह (।) न (।)
सामान्यमात्रस्य ग्रहणेऽभ्युपगम्यमाने भेदस्य विशेषस्य संकेतविषयस्यापेक्षा न युज्यते
यथा गौरित्युक्ते कीदृशो गौरिति । तस्मात्सामान्यवति विशेषे संकेत
स्तेनैवार्थित्वाद् व्यवहारिणां । तथा च भेदश्चासमितो ग्राह्य इत्युक्तं । तस्मा
च्चक्षुश्च रूपञ्च806 प्रतीत्यासाद्योदेति नेत्रधीरित्यभ्युपगन्तव्यं ॥ (१९०)
व्यवधानेनापि रूपकारणता स्यादिति चेत् । आह (।)
साक्षाच्च विषयो रूपादिः स्वग्राहकज्ञानजनने समर्थोऽक्षवत् । न व्यवधानेन ।
स्मृत्यधीनतायां दोषस्योक्तत्वात्
(।) तस्मादशब्दसंसृ/?/ष्टार्थबलभावितद्रूपानुकारि34b
प्रत्यक्षमनाविष्टाभिलापमविकल्पकमेव युक्तं ॥ X X ॥