७. प्रत्यक्षाभासचिन्ता

प्रत्यक्षाभासमिदानीं वक्तव्यं ।

त्रिविधं कल्पनाज्ञानमाश्रयोपप्लवोद्‏भवम् ।
अविकल्पकमेकञ्च प्रत्यज्ञाभं चतुर्विधम् ॥ २८८ ॥
205

त्रिविधं कल्पनाज्ञानं933 प्रत्यक्षाभं मरीचिकायां जलाध्यवसायि भ्रान्तिज्ञानं
संवृतौ वि934 संवादिव्यवसायसां
वृतज्ञानं । पूर्व्वदृष्टैकत्वकल्पनाप्रवृत्तं लिङ्गानुमे
यादिज्ञानं । अविकल्पकञ्च एकं प्रत्यक्षाभं । कीदृशमाश्रयस्येन्द्रियस्योपप्लवस्तिमिरा
द्युपघातस्तस्माद् भवो यस्य तत्तथा । एवञ्च चतुर्विधञ्च प्रत्यक्षाभासं ॥ (२८८)

  1. भ्रान्तिसंवृतिसत् ज्ञानमनुमा (ना) नुमानिकं ।
    स्मार्त्ताभिलापिकञ्तेति प्रत्यक्षाभं सतैमिरं
     ॥ व्याचष्टे ॥
    संकेताश्रयकल्पना घटादि । अर्थान्तरारोपकल्पना मरीचिषु जलं । परोक्षार्थ
    कल्पनाऽनुमानानुमानिकादिषु सम्बन्धकालदृष्टैकत्वेन वृत्ता ॥

  2. सत्त्वं द्रव्यं घटसंख्याक्षेपणसत्ता घटत्वादिषु ।