तद्विवृणोति—

इति मुक्तः परो युद्धे निरुद्धो दर्पशालिना ।
पुंसा केनापि तज्ज्ञेयमूर्जस्वीत्येवमादिकम् ॥ २९२ ॥

इत्यनन्तरोक्तेन क्रमेण पुंसा केनापि केनचित् अनिर्दिष्टगोत्रनामधेयेन दर्पशालिना सौटीर्यसम्बन्धितेन युद्धे निरुद्धः प्राप्तः परः शत्रुः मुक्तस्त्यक्तो न हतः । यदीदृशं वचनं तदेवमादिकमन्यदपि तादृशम्—

प्राणा[न्] जुहौमि युद्धाग्नौ यद्यरातिर्ममोर्जितः ।
न सीतार्पणकार्पण्यम्लानः प्राणिमि रावणः ॥
79b इत्याद्यूर्जस्वीत्यवज्ञेयमवगन्तव्यमिति ॥