अर्थमिष्टमनाख्याय साक्षात्तस्यैव सिद्वये ।
यत्प्रकारान्तराख्यानं पर्यायोक्तं तदीदृशम् ॥ २९३ ॥

इष्टमभिमतमर्थं कञ्चित्प्रियसमागमादिलक्षणं साक्षादञ्जसा वाचकव्यापारेण अनाख्याय अप्रतिपाद्य तस्यैवेष्टस्यार्थस्य सिद्धये निष्पत्त्यर्थं प्रकारान्तरस्य तत्मिद्ध्यनुगुणस्य अन्यस्यार्थस्याख्यानम् आख्यायतेऽनेनेति वाक्यं तादृशम् इति अनूद्य तदीदृशं वचनं पर्यायोक्तमिष्टं मनीषिभिरिति विधिः ॥