169 आस्यतां स्थीयताम् । अलं मदपेक्षयेति ॥

तद् व्याचष्टे—

सङ्गमय्य सखीं यूना सङ्केते तद्रतोत्सवम् ।
निर्वर्तयितुमिच्छन्त्या कयाप्यपसृतं तथा ॥ २९५ ॥

सङ्केते कृतसंविदि कस्मिंश्चित् स्थाने सखीमात्मनो यूना केनचित् सह सङ्गमय्य सङ्गतां कृत्वा तयो रतोत्सवं रहो निर्वर्तयितुं साधयितुमीच्छन्त्या कयापि कयाचिद् विदग्धया संख्या तथा अनन्तरोक्तेन प्रकारेण परभृतवारणव्यपदेशेनापसृतं ततः सङ्केतादिति ॥

॥ इति पर्यायोक्तम् ॥

समाहितमालक्षयन्नाह—

किञ्चिदारभमाणस्य कार्य दैववशात् पुनः ।
तत्साधनसमापत्तिर्या तदाहुः समाहितम् ॥ २९६ ॥

किञ्चित्कार्यं प्रसादनादिकमारभमाणस्य साधयितुं सज्जीभूतस्य पुंसो दैववशात् विधिबलात् कारणात् न तु स्वसामर्थ्यात् । तस्य सिषाधयिषितस्य कार्यस्य साधनं साध्यते अनेनेति तस्य पुनरपरस्य प्रत्ययस्य कस्यचित्समापत्तिः सन्निधानं या तदेवंलक्षणं समाहितमाहुः ब्रुवते कवय इति ॥

तदुदाहरति—

मानमस्या निराकर्तुं पादयोर्मे नमस्यतः ।
उपकाराय दिष्ट्यैतदुदीर्णं घनगर्जितम् ॥ २९७ ॥

अस्याः प्रियाया मानं प्रतिकूलवर्तितां निराकर्तुं पादयोरेनामस्या वा नमस्यतः नमतो मे ममोपकाराय आरब्धकार्यानुग्रहार्थं घनस्य मेघस्य गर्जितं मन्मथनिर्भर्त्सितमिव मानिनीमानदुःसहमुदीर्णम् उदितं दिष्ट्येत्यानन्दनिवेदनमिष्टसिद्धेः । इह मान-