उदात्तमादर्शयन्नाह—

आशयस्य विभूतेर्वा यन्महत्वमनुत्तरम् ।
उदात्तं नाम तं प्राहुरलङ्कारं मनीषिणः ॥ २९८ ॥

आशयस्याभिप्रायस्य कस्यचिद्विभूतेः सम्पदो वा यन्महत्वमौदार्यमनुत्तरं नास्मादुत्तरमधिकमस्ति प्रकर्ष80a निष्ठाधिष्ठानत्वादिति । तमलङ्कारं निरतिशयोदात्तत्वप्रकाशनरूपमुदात्तं नाम प्राहुर्मनीषिणः कवय इति ॥