182 यमो दक्षिणस्या दिशः पतिः । कुवेर उतरस्याः । [वरुणः पश्चिमायाः] सहस्राक्षः शक्रः प्राच्याः । भवानपि त्वं च । एते[भ्योऽन्ये] नास्या विषयः । इत्यनन्यविषयां लोकपाल इत्येवंरूपां श्रुतिं शब्दं बिभ्रति वहन्ति, सर्वैस्तैर्लोकरक्षणात् । अत्र लोकपालत्वेन विवक्षितेन गुणेन उत्कृष्टैर्यमादिभिः समीकृत्य राज्ञः कस्यचित् कीर्तनस्मृत्यर्थमिति योजनीयम् ॥

सङ्गतानि मृगाक्षीणां तडिद्विलसितानि च ।
क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम् ॥ ३३० ॥

मृगाक्षीणां सङ्गतानि प्रेमाणि त[डि]तां विद्युतां विलसितानि च यथायोगं घनैर्मेघैरारब्धानि घनं निरन्तरमारब्धान्यपि । किं पुनरन्यानि ? स्वयमात्मना प्रकृतिचापल्यात्, न तु कारणवैगुण्येन घनारब्धत्वात् क्षणद्वयमपि द्वाव