प्रावृषेण्यैर्जलधरैरम्बरं दुर्दिनायते ।
रागेण पुनराक्रान्तं जायते जगतां मनः ॥ ३३३ ॥

जलधरैः प्रावृषि भवैः कारणैः अम्बरमाकाशं दुर्दिनायते भिन्नाङ्गं जायते । जगतां मनः पुनस्तै रेव रागेण रतिभावेनाक्रान्तं विषयीकृतं रक्तं जायते । अत्र दुर्दिनत्वरक्तत्वयोर्विरागरागरूपयोः गुणपदार्थयोः विरोधप्रतिपत्तिरिति लक्षणं योज्यम् ॥