तनुमध्यं पृथुश्रोणि रक्तौष्ठमसितेक्षणम् ।
नतनाभि वपुः स्त्रीणां कं न हन्त्युन्नतस्तनम् ॥ ३३४ ॥

तनु कृशं मध्यम् । पृथुर्महीयसी श्रोणिः नितम्बो रक्तश्चौष्ठोऽधरः । असितं कृष्णमीक्षणमक्षि । नता निम्ना नाभिः । उन्नतौ स्तनौ यत्र तादृशं स्त्रीणां वपुः शरीरं कं नाम नरं [न] हन्ति चक्षुःप्रीतिमनःसङ्गादिक्रमेण दशमीं दशां कं न नयति ? सर्वमेतादृशं जनं हन्ति । अत्र तनुमध्यपृथुश्रोणिप्रभृतीनां शरीरावयवद्रव्याणां परस्परविरोधिनां संसर्गदर्शनमिति लक्षणं योजनीयम् ॥