अप्रस्तुतस्तोत्रमादर्शयन्नाह—

अप्रस्तुतप्रशंसा स्यादप्रक्रान्तेपु या स्तुतिः ॥ ३३८ ॥

185 अप्रक्रान्ते तु अप्रकृत एव बहिस्तत्त्वेन कस्मिंश्चिद्वस्तुनि बुद्धिस्थे विषये या स्तुतिः संराधनमित्यनूद्य सा अप्रस्तुतप्रशंसा स्यादिति विधीयते, यदुद्देशेऽप्रस्तुतस्तोत्रमुक्तम् । अप्रक्रान्तेप्सितस्तुतिरिति पाठेऽप्रक्रान्तस्येप्सितस्येष्टस्य वस्तुनः कस्यचिदप्रक्रान्ता वा तद्विषयत्वात् । स्तुतिरिति 85b व्याख्येयं शेषं समानम् ॥