तामुदाहरन्नाह—

सुखं जीवन्ति हरिणा वनेष्वपरसेविनः ।
जलैरयत्नसुलभैस्तृणदर्भाङ्कुरादिभिः ॥ ३३९ ॥

जलैर्दर्भाङ्कुरैस्तृणोद्गमैः । आदिशब्देन तरुपल्लवादिभिरर्थैरुपकरणैर्वा अयत्नेन सेवापरिक्लेशादि[राहित्येन] सुलभैः [सुख]प्राप्यैरकृच्छ्राधिगतैरमृतायमानैरपरमन्यं कञ्चिदसेवमानाः परचित्ताराधनदुःखानभिज्ञाः स्वाधीनवृत्तयः सुखं निराकुलं [हरिणाः] वनेषु जीवन्ति । अपि नाम तादृशी वृत्तिरस्माकमपि स्यात् ? प्रतिपक्षपातः खलु प्रजायते । तादृशीं कल्याणीं वृत्तिं कल्पयतो हरिणेषु ईर्ष्या लक्ष्यत इति ॥