भूजङ्गभोगसंसक्ता कलत्रं तव मेदिनी ।
अहङ्कारः परां कोटिमारोहति कुतस्तव ॥ ३४४ ॥

तव कलत्रं भार्यां 86b कलत्रमिव कलत्रं मेदिनी, पालनादिना । मेदिनी पृथिवी जघन्यजातीया च स्त्री । भुजङ्गशब्देनात्र श्लेषः, फणधरो धूर्तश्च विवक्षित इति श्लिष्टम् । तस्य भोगः यथाक्रमं कामः संभोगश्चेति पुनः श्लिष्टम् । तत्र संसक्ता व्यवस्थिता तेन सा ध्रियते इति श्रुतेः । निरता चेत्युभयत्र योज्यम् । यत एवं तत् कुतः188 कस्मादुत्कर्षादहंकारः अहमत्राधिक इत्यभिमानः तव परां कोटिमधिमात्रतामारोहति ? न युक्तमित्यमहङ्कर्तुं तवेति । निन्देव स्तुतिरियमखिलमहीतलाधि[पत्य]वर्णनलक्षणा अत्र लक्ष्यत इति ॥