अपरे अप्येवं श्लेषानुगता विकल्पा द्रष्टव्या इति निगमयन्नाह—

इति श्लेषानुविद्धानामन्येषां चोपलक्ष्यताम् ।
व्याजस्तुतिप्रकाराणामपर्यन्तः प्रविस्तरः ॥ ३४५ ॥

इति कथितेन पथा श्लेषेणोक्त[रू]पेणानुविद्धानां युक्तानां व्याजस्तुतेः प्रकाराणां विकल्पानामन्येषां च शेषाणामपि प्रविस्तरः प्रपञ्चोऽपर्यन्तः अपरिमितः प्रयोगेषु लक्ष्यतां द्रष्टव्यः । इह तु दिङ्मात्रं दर्शितम् । विकल्पाः केचिदपरे निदर्श्यन्ते—

बिभर्ति सकलामुर्वीमुरगः स्वपदच्युतः ।
भवानासाद्य साम्राज्यं राजन् किमभिमन्यसे ॥
मायावशेन लोकोऽयमावर्जितमतिस्त्वया ।
त्वद्यशोमुखरः कृष्णचरितः किं चिकित्ससे ॥
श्रुतिः कुवलयं धत्ते लीलया हरिणीदृशंम् ।
विक्रमेण भवानेतन्महता किं तव स्मयः ॥ इति ।