187 रामेण दाशरथिना भार्गवेण वा तापसेन चतुरङ्गबलहीनेन तपस्विनापि । अ[नादरं] सूचयत्यपिशब्दः । कथञ्चिदनुगृहीतमुनिरूपेण जन्मान्तरोपात्ततपःप्रभावयोगाद्वा । तापसेनेति श्लिष्टम् । अत्र एवेयं श्लेषानुगतैव प्रवर्तते । यद्वक्ष्यतिइति श्लेषानुविद्धानामित्यादि२.३४५ । इयं भूतधारिणी पृथिवी जिता आक्रान्ता । त्वया तु चतुरङ्गबलपरिवारिणा राज्ञा नराविपेनापि सता । नातःपरमिहाधिकं पदम् अस्तीत्यपिशब्देन सूचयति । सैवेयं जिता तापसेन जिता एव । नान्या तदहमजयं पृथिवीमिति मदोऽहङ्कारस्तव मा भूत् । कोऽत्र विशेष इति चेत्-निन्दनेन च । महानुभावेन जितसमस्तमहीमण्डलेन सकलनरेन्द्रचूड़ामणिना गुणारामेण रामेण समीकृत्य परया स्तुत्या संयोजितो राजा कश्चिदिति व्याजस्तुतिरीदृशी सुतरां रमणीयेति ॥

पुंसः पुराणादाच्छिद्य श्रीस्त्वया परिभुज्यते ।
राजन्निक्ष्वाकुवंश्यस्य किमिदं तव युज्यते ॥ ३४३ ॥

पुराणाज्जीर्णादकिंञ्चित्करात् पुंसः पुरुषात् कुतश्चित्, पुराणाच्च पुंसो विष्णोरिति श्लिष्टम् । आच्छिद्यावहृत्य श्रीरभ्युदयो राज्यश्रीश्च देवतेति श्लिष्टम् । त्वया परिभुज्यते निषेव्यते । तदिदमीदृशं कर्म परदाराच्छेदरूपं तवेक्ष्वाकुवंश्यस्य तद्भवस्य मनुकुलजन्मनः । इक्ष्वाकुवंशप्त्येत्यपि पठ्यते । तत्रेक्ष्वाकूणां ते वा वंशोऽस्येत्यन्यपदार्थः । यदुपज्ञेयं वर्णाश्रमाचारस्थितिलक्षणा लोकयात्रा प्रवर्तते । किं युज्यते ? नैवेदं युक्तं तवेदृशवंशसम्भवस्येत्यर्थः । राजन्नित्यामन्त्र्यते । इह पुराणादकिञ्चित्करात्पुंसः श्रीः सम्पत् आच्छिद्यते इति निन्द्यत एव । पुराणात् पुंसो विष्णोः श्रीः विभूतिर्देवतेति च श्लिष्टा । आच्छिद्यते । तामपि पुरुषोत्तमा[दा]क्रम्याकृष्यत इति वीर्योत्कर्षाविष्कृतेः स्तूयत एव कश्चिन्नृपतिः । तदियं सर्वथा श्लेषमुपजीवतीति ॥

भूजङ्गभोगसंसक्ता कलत्रं तव मेदिनी ।
अहङ्कारः परां कोटिमारोहति कुतस्तव ॥ ३४४ ॥

तव कलत्रं भार्यां