निदर्शनमुपदर्शयन्नाह—

अर्थान्तरप्रवृत्तेन किञ्चित्तत्सदृशं फलम् ।
सदसद्वा निदर्श्येत यदि तत् स्यान्निदर्शनम् ॥ ३४६ ॥

अर्थान्तरे निदर्श्यापेक्षया अन्यस्मिन् क्वचिदुचिते कार्ये प्रवृत्तेन तत्साधयता केनचिद्वस्तुना हेतुभूतेन कर्तृभूतेन तेनार्थान्तरेण सदृशं तुल्यं फलं किञ्चित् सदिष्टमसद् अनिष्टं वा निदर्श्येत प्रतिपाद्येत यदि, तदेवंलक्षणं निदर्शनं स्यादिति विधीयते । अर्थान्तरस्य वृत्तेनेत्यपि पाठः । तत्रार्थान्तरस्य कस्याचिद्वृत्तेन कर्मणा सदृशमिति व्याख्येयम् । शेषं समानम् ॥