87a कार्यमृद्धीनामभ्युदयानां विभावयितुं दर्शयितुमिति सत्फलमिदं निदर्शितं सुहृदनुग्रहम्याभीक्ष्णत्वादि[ति] ॥

असत्फलं निदर्शयन्नाह—

याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजिः पराभवम् ।
सद्यो राजविरुद्धानां सूचयन्तो दुरन्तताम् ॥ ३४८ ॥

चन्द्रस्यांशुभिः स्पृष्टा भिन्ना ध्वान्तस्य तमसो राजिः संघातः पराभवं निधनं याति पराभूयत इति यावत् । सद्यस्तत्क्षणम् । किं कुर्वती ? राजा चन्द्रो नृपतिश्चेति श्लिष्टम् । तेन विरुद्धानां केषाञ्चित् दुष्टो विपद्रूपोऽ[न्तोऽ]वसानं यस्य तद्भावस्तत्ताम् अनर्थनिष्ठतां सूचयन्तीति । राजविरोधहेतुकमसत्फलमेतद् दर्शितम् पराभवस्यानिष्टत्वात् ॥

॥ इतिं निदर्शनचक्रम् ॥

सहोक्तिं परिवृत्तिं च प्रतिपादयन्नाह—

सहोक्तिः सहभावस्य कथनं गुणकर्मणाम् ।
अर्थानां यो विनिमयः परिवृत्तिस्तु सा यथा ॥ ३४९ ॥

गुणानां कर्मणां च सम्बन्धिनः सहभावस्य युगपत् सत्तायाः कथनं प्रतिपादनं यदित्यनूद्य सहोक्तिः सा विज्ञेयेति विधीयते । अर्थानां गुणक्रियादीनां विनिमयो व्यत्ययः इत्यनूद्य परिवृत्तिविधीयते । यथेत्युदाहरति ॥

सह दीर्घा मम श्वासैरिमाः संप्रति रात्रयः ।
पाण्डुराश्च ममैवाङ्गैः सह ताश्चन्द्रभूषणाः ॥ ३५० ॥