यद्येवमानन्त्यात् कार्त्स्न्ये न वक्तुं न शक्यन्ते, किमिदानीं क्रियतामित्याह—

किं तु बीजं विकल्पानां पूर्वांचार्यैः प्रदर्शितम् ।
तदेव प्रतिसंस्कर्तुमयमस्मत्परिश्रमः ॥ २ ॥

किं त्वपि त्वित्यर्थान्तरविवक्षायां तदाह—बीजमित्यादि । विकल्पानामलङ्कारप्रभेदानां जात्युपमारूपकादीनां बीजं प्रतिनियतं सकलव्यक्तिव्यापि सामान्यं रूपम् । यतः प्रभेदा विविधास्तदनुसृताः प्रवर्तन्ते । पूर्वाचार्यैश्चिरन्तनैः काव्यलक्षणकारैः मेधाविश्यामवादि[प्रभृति]भिः प्रदर्शितम् निर्दिष्टं यत्तदेव नान्यत् । प्रतिसंस्कर्तुं संक्षेपेण68 परिस्फुटं यथावदभिधातुमयं प्रकृतः अस्माकं परिश्रमो यत्नो वर्तते, नतु सर्वमलङ्कारमभिधातुम् । आनन्त्यादशक्तेश्च । किं तु परिमिताः केचिदलङ्काराः पूर्वाचार्योपदिष्टाः प्रतिसंस्क्रियन्ते । तथा च वक्ष्यति—

पन्थाः स एष विवृतः परिमाणवृत्या ।
संक्षिप्यविस्तरमनन्तमलंक्रियाणाम् ॥
71 इत्यादि

  1. २. २६७