शस्त्रप्रहारं ददता भुजेन तव भूभुजाम् ।
चिरार्जितं हृतं तेषां यशः कुमुदपाण्डुरम् ॥ ३५४ ॥

तव भुजेन भुजगराजभोगायमानेन शस्त्रैः कृपाणादिभिः प्रहारं ददता प्रयच्छता भूभुजां राज्ञाम् । पूजानुग्रहनिन्दा[घात]दानस्य दानत्वाभावात् न चतुर्थी । चिरं दीर्घमर्जितं सञ्चितं कुमुदवत् पाण्डुरं यशस्तेषां भूभुजां सम्बन्धि हृतं गृहीतम् । अत्र प्रहारेण कर्मणा यशोरूपो गुणो विनिर्मितः । इतीदृशी परिवृत्तिरनुगन्तव्या ।

जगतां प्रीतिसर्वस्वं [धैर्यं मतिम]तामपि ।
कटाक्षमात्रमुत्सृज्य गृह्णन्ति हरिणीदृशः ॥

इत्यपरमुदाहरणम् ।