193 त्रयमप्येतन्न संगृहीतमित्याशङ्क्य संग्रहं दर्शयन्नाह—

अनन्वयससंदेहावुपमास्वेव दर्शितौ ।
उपमारूपकं चापि रूपकेष्वेव दर्शितम् ॥ ३५६ ॥

अनन्वयश्च [स]संदेहश्च द्वावप्येतौ उपमासु उपमाविकल्पेषु एव दर्शितो अन्तर्भावितौ तल्लक्षणयोगात् । तथाहि, अनन्वयस्ताव[त्—

च]न्द्रारविन्दयोः कक्ष्यामतिक्रम्य मुखं तव ।
आत्मनैवाभवत्तुल्यम्
103 इत्यात्मनोपमितत्वात्, मुखस्योपमैव । न चाभेदे कथमुपमानोपमेयभाव इति शङ्कनीयम्, अनन्वयेऽतिप्रसङ्गात् । न ह्यनन्वय इति व्यपदेशान्तरमात्रेणोपमानोपमेयभावस्तत्र निवर्तते, प्रतीतिविरोधात् । अथाभेदेऽपि भेदकल्पनया तद्भावः, इहाप्येवमस्तु । अत एवासाधारणोपमेयमात्मनैवोपमितेरन्यस्यानपेक्षणादन्यत्वप्रदर्शनव्याजेन चन्द्रारविन्दाभ्यां वदनमुपमितमिति व्याचक्षते । तथा कथमसाधारणोपमेति चिन्त्यम् । ससंदेहोऽपि—
किं पद्ममन्तर्भ्रान्तालि किं ते लोलेक्षणं मुखम् ।
मम दोलायते चित्तम्
104 इति संशयमुखेन व्यक्तं सादृश्यप्रतीतेः ससंशयोपमैव । न च मन्तव्यम्—
किमयं शशी न स दिवापि राजते
105 इति [स्तुति]परो भेदो न दर्शित इति । एवं नाम कान्तिसंपन्नं मुखं यत् पद्मं तद्व्यवसीयत इति स्तुतेरपि प्रतीतेः । प्रायश्चापरा अप्युपमाः स्तुतिगर्भाः, चन्द्रादिप्रतिविशिष्टवस्तुसादृश्योद्भावनात् । न चायं तत्र[ावश्यं] स्तुतिपरो भेदः कथ्यते, अन्यथापि प्रयोगदर्शनात् । तद् यथा—
एषा किंशुकराजी राजति दावानलो ज्वलन् किमयम् ।
विरहविनाशोत्पाते याता किमकालसन्ध्येयम् ॥ इति ॥

  1. २. ३७
  2. २. २६
  3. काव्यालङ्कारे ३.४४