भाविकत्वमुद्भावयन्नाह—

भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम् ।
भावः कवेरभिप्रायः काव्येष्वासिद्धि यः स्थितः ॥ ३६१ ॥

प्रबन्धः पद्यगद्यमिश्रात्मकस्त्रिविधः सन्तानः प्रबध्यते विरच्यतेऽसाविति । स विषयो यस्य स प्रबन्धविषयः काव्यसमुदायगोचरः । नैकदेशाधिकरणं तं प्रबन्धविषयं गुणं वि89b शेषम् । अनुवादोऽयं भाविकत्वमिति । भाविकं नाम स्वार्थिकत्वादस्य विधेः । प्राहुरामनन्ति सूरय इति विधिः । सोऽपि न ज्ञायते कीदृशोऽपौ प्रबन्धविषयो197 गुणः यदनुवादेन भाविकत्वं विहितमिति तं प्रभवतः स्वरूपतश्च दर्शयन्नाह- भाव इत्यादि । कवेः प्रबन्धकर्तुरभिप्रायः प्रबन्धनिर्वाहकः प्रयत्नविशेषो विकल्पात्मकः । यदाह—काव्येषु प्रबन्धेषु साध्येषु साधनरूपेण आसिद्धि प्रथमतः प्रभृति प्रबन्धविषयां सिद्धिं समाप्तिमधिकृत्य यः स्थितः तत्त्वव्यापकः स तादृशो भावस्तावत् प्रभवस्तस्य गुणस्य । अत एवासौ प्रबन्धविषयः । प्रबन्धसाधकभावसन्ता[ना]नुवर्तित्वात्, न प्रादेशिकः । ततश्च सर्वालङ्कार[ा/?/श्रय]भूतोऽसावादिमध्यान्तेषु प्रबन्धमनुवर्तते । एवं प्रभवतस्तावदुक्तः असौ गुण इति ॥