[क्रिं]यास्वभावोक्तिमुदाहरन्नाह—

कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
पारावतः परिक्षिप्य रिरंसुश्चुम्बति प्रियाम् ॥ १० ॥

पारावतः प्रियां पारावतीं चुम्बति रिरंसू रन्तुकामः परिक्षिप्य परिभ्रम्य कलमव्यक्तमधुरं क्वणितं शब्दो गर्भोऽन्तर्वर्ती यस्मिन् तेन कण्ठेन लक्षितः । आधूणिते भ्रमिते ईक्षणे नेत्रे यस्य स तथा । इह क्वणनाघूर्णनादेः क्रियापदार्थस्य स्वभावः प्रकाश्यत इति क्रियास्वभावोक्तिरेवंविधा विज्ञेयेति ।

वेपते श्वसिति का[म्यत्यलं] पश्यति रोदिति ।
बिभेति हरति स्वाङ्गं बाला नवसमागमे ॥
इत्यपरमुदाहरणम् ॥