एवंविधं हेयमिति दर्शयति—

ईदृशं वर्ज्यते सद्भिः कारणं तत्र चिन्त्यताम् ।
गुणदोषविचाराय स्वयमेव मनीषिभिः ॥ ५६ ॥

ईदृशम् इत्थंमूतं सद्भिः कविभिरुचितविद्वद्भिः वर्ज्यते नाद्रियते । नियतं तावदेतत् । किं कारणमिति चेत् ? अत्रेदृशस्य वर्जने कारणं तु निमित्तं पुनः किञ्चित् स्वयमेव चिन्त्यतां निरूप्यताम् । नात्रास्माकमभिनिवेशः । अयमाशयः । ईदृशमशिष्टेष्टमप्रतीतं न सौभाग्यभाजनम् । अतश्चोद्वेगकरत्वाद् वर्ज्यते । न च ते पर्यनुयोगमर्हन्ति, प्रमाणत्वात् सर्वथा तेषाम् । केवलं तत्प्रयोगमार्गः प्रकृतिसुभगोऽस्माभिरनुगम्यते । यदि पुनस्तैराद्रियेत, के वयं वर्जयितुम् ? सुभगमेव तदेदृशं तल्लक्षणत्वादिह सौभाग्यस्येति । तथा च व[क्ष्य]ते शिष्टेष्टस्तु न दुष्यतीति76 । इत्थं चैतदुद्वेजनीयम् ।

85
चन्द्रो हंस इवाभाति नभः सर इवामलम् ।
भटो बन्धुरिव स्निग्ध खद्योतो भाति दीपवत् ॥

प्रतीतमीदृशं सदा तत्समुचित[मनु]द्वेजनीयमेव, तद्विपर्ययात्तु पूर्वकमरञ्जकम् । अनेन 48b च सर्वेण—

हीनताऽसम्भवो लिङ्गवचोभेदौ विपर्ययः ।
उपमानाधिकत्वं च तेनासदृशतापि च ॥
त एत उपमादोषाः सप्त मेधाविनोदिताः ।
77 इति मतान्तरमनैकान्तीकृतम् ।

  1. ३.१४८
  2. काव्यालङ्कारे २. ३९–४०