ताम्राङ्गुलिदलश्रेणि नखदीधितिकेसरम् ।
ध्रियते मूर्ध्नि भूपालैर्भवच्चरणपङ्कजम् ॥ ६९ ॥

राजन्, भवतश्चरण एव पङ्कजं भूपालैः ध्रियते धार्यते मूर्ध्नि शिरसि । किम्भूतम् ? ताम्राङ्गुलयो दलश्रेणिः पत्रपंक्तिर्यस्य । नखानां दीधितयः किरणाः केसराणि यत्र तादृशं ध्रियते इति प्रकृतम् ॥