तद् व्याचष्टे—

मुखादित्वं निवत्यव पद्मादित्वेन रूपणात् ।
उद्भावितगुणोत्वकर्षं तत्त्वापह्नवरूपकम् ॥ ९५ ॥

मुखमादिर्यस्य नेत्रादेः तस्य भावः । तत्त्वम् । तद् विनिवर्त्यैव अपहृत्यैव । न तु मुखादिकमेवैतत् पद्मादिकमिति तत्त्वम् 51b अपलाप्यते [अत]एवाक्षेपरूपकविलक्षणमेतत् । पद्ममादिर्यस्य भ्रमरादेः तस्य, भावः तेन लक्षितस्य रूपणात् परिकल्पनात् । मुखादेरिति गम्यते । तत्त्वापह्नवरूपकमीदृशं तत्त्वस्य वस्तुरूपस्य अपह्नवेन रूपकमिति । किमेवमाविष्कृतं स्यादित्याह—उद्भावितः प्रकाशितः । गुणस्य कान्त्यादेरुत्कर्षा[ति]शयो येन यत्र वा तत्तथोक्तमिति ॥