श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपंक्तिभिः ।
भुवश्च सुकुमाराभिर्नवशाद्वलराजिभिः ॥ १०० ॥

प्रावृषेण्याभिः वर्षासमयवर्तिनीभिः जीमूतपंक्तिभिः मेघमालाभिः दिशः श्यामलाः नीलाः वर्तन्ते । सुकुमाराभिः शाद्वलराजिभिः शष्पोद्गमैः । भुवश्च भूमयः किम् ? श्यामला इत्यपेक्षते । इह श्यामला इति पूर्ववर्तिना गुणवाचिना सर्वमिदं वाक्यमुपक्रियते इति गुणादिदीपकमित्थंभूतं विभाव्यमिति ॥