जित्वा विश्वं भवानत्र विहरत्यवरोधनैः ।
विहरत्यप्सरोभिस्ते रिपुवर्गो दिवं गतः ॥ ११९ ॥

विश्वं जगत् जित्वा अत्र महीमण्डले अद्य च अधुना अवरोधनैः अन्तःपुरसुन्दरीभिः सह भवान् विहरति रमते । तव रिपुवर्गो दिवं स्वर्गं तवासिधारापथेन गतः सह अप्सरोभिः दिव्याङ्गनाभिः सह विहरति इत्युभयावृत्तिर्निदर्शिता, विहरति इत्यर्थस्य पदस्यावृत्तेरिति ॥

इदमपि दीपकस्य स्थानम् । तद्यथा—

जित्वा विश्वं भवानत्र विहरत्यवरोधनैः ।
रम्याभिरप्सरोभिस्ते रिपुवर्गो दिवं गतः ॥
इति ।

अत एव दीपकस्थान एवेष्टमलङ्कारत्रयमिति सामान्येनोक्तम् ॥