अनञ्जितासिता दृष्टिर्भ्रूरनावर्जिता नता ।
अरञ्जितोऽरुणश्चायमधरस्तव सुन्दरि ॥ १९९ ॥

129 64a सुन्दरि ! तव दृष्टिः अनञ्जिता अञ्जनशलाकया यथास्थानमस्पृष्टा सती असिता कृष्णा । भ्रूश्च अनावर्जिता प्रयत्नेन केनचित् अनामिता सती नता वक्रा । अरञ्जितो[ऽपि] लाक्षारसरागादिना अरुणो लोहितः अधरश्चायं [दृश्यमानः । एतत्] सर्वम् अलौकिकं तवेति ॥