समासोक्तिं व्यक्तीकुर्वन्नाह—

वस्तु किञ्चिदभिप्रेत्य तत्तुल्यस्यान्यवस्तुनः ।
उक्तिः संक्षिप्तरूपत्वात् सा समासोक्तिरिष्यते ॥ २०३ ॥

किञ्चिदिष्टं वस्त्वभिप्रेत्य मनसिकृत्य तेन अभिप्रेतेन वस्तुना तुल्यस्य सदृशस्य अन्यस्य वस्तुनः कस्यचिन्न विसदृशस्य । ततस्तत्प्रतीत्यसम्भवात् । सदृशेनैव तु तदुपलक्षणा उक्तिरन्यपरा या अन्यस्यैव तन्त्रा, अ[न्य]स्य प्रतीतेः । सा तल्लक्षणा समासोक्तिः इष्यते तज्ज्ञैः । कुतः ? संक्षिप्तं विवक्षितवस्त्वपेक्षया स्वल्पं रूपं स्वभावो यस्याः तद्भावः तत्त्वम् तस्मात् । ततोऽन्वर्थेयं संज्ञा संक्षेपोक्तिः समासोक्तिरिति कृत्वा । तस्मादियं गुणीभता अर्थान्तरं [स्फुटयति] न तु स्वार्थतन्त्रा । इयमेव चान्यैः ध्वनिरिति व्यवह्रियते । यदाहुः—

यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वाथौ ।
व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः । इति ॥
83

  1. ध्वनिकारिकायाम् १. १३